केचिद्धि सौहृदा देवे न दोषं परिचक्षते। स्वार्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत
प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम्। एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने
त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्युदस्य च। परमं यत्क्षमं लोके यथावद्वक्तुमर्हसि
सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि। जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत
जामदग्न्येन रामेण क्षत्रं यदवशेषितम्। तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम्
कृतोऽयं कलुसङ्कल्पः क्षत्रियैर्वसुधाधिप। निदेशवाग्भिस्तत्तेह विदितं भरतर्षभ
ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते। राजानः श्रेणिबद्धाश्च तथाऽन्ये क्षत्रिया भुवि
ऐलवंश्याश्च ये राजंस्तथैवेक्ष्वाकवो नृपाः। तानि चैकशतं विद्धि कुलानि भरतर्षभ
ययातेस्त्वेव भोजानां विस्तरो गुणतो महान्। भजतेऽद्य महाराज विस्तरं सचतुर्दिशम्
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते। इदानीमेव वै राजञ्जरासन्धो महीपतिः
अभिभूय श्रियं तेषां कुलानामभिषेचितः। स्थितो मूर्ध्नि नरेन्द्राणामोजसाऽऽक्रम्य सर्वशः
सोऽवनीं मध्यमां भुक्त्वा मिथो भेदममन्यत। प्रभुर्यस्तु परो राजा यस्मिन्नेकवशे जगत्
स साम्राज्यं महाराज प्राप्तो भवति योगतः। तं स राजा जरासन्धं संश्रित्य किल सर्वशः
राजन्सेनापतिर्जातः शिशुपालः प्रतापवान्। तमेव च महाराज शिष्यवत्समुपस्थितः
वक्रः करूषाधिपतिर्मायायोधी महाबलः।। अपरौ च महावीर्यौ महात्मानौ समाश्रितौ
जरासन्धं महावीर्यं तौ हिंसडिम्बिकावुभौ। वक्रदन्तः करूषस्य करभो मेघवाहनः। मूर्ध्ना दिव्यं मणिं बिभ्रद्यमद्भुतमणिं विदुः
मरुं च नरकं चैव शास्ति यो यवनाधिपः। अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा
भगदत्तो महाराज वृद्धस्तव पितुः सखा। स वाचा प्रणतस्तस्य कर्मणा च विशेषतः
स्नेहबद्धश्च मनसा पितृवद्भक्तिमांस्त्वयि। प्रतीच्यां दक्षिणं चान्तं पृथिव्याः प्रति यो नृपः
मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः। स ते सन्नितिमानेकः स्नेहतः शत्रुसूदनः
जरासन्धं गतस्त्वेव पुरा यो न मया हतः। पुरुषोत्तमविज्ञातो योसौ चेदिषु दुर्मतिः
आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम्। आदत्ते सततं मोहाद्यः स चिह्नं च मामकम्
वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः। पौण्ड्रको वासुदेवेति योसौ लोकेऽभिविश्रुतः
चतुर्थभाङ्महाराज भोज इन्द्रसखो बली। विद्याबलाद्यो व्यजयत्स पाण्ड्यक्रथकैशिकान्
भ्राता तस्याकृतिः शूरो जामदग्न्यसमोऽभवत्। स भक्तो मागधं राजा भीष्मकः परवीरहा
प्रियाण्याचरतः प्रह्वान्सदा सम्बन्धिनस्ततः। भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः
न कुलं सबलं राजन्नभ्यजानात्तथाऽऽत्मनः। पश्यमानो यशो दीप्तं जरासन्धमुपस्थितः
उदीच्याश्च तथा भोजाः कुलान्यष्टादश प्रभो। जरासन्धभयादेव प्रतीचीं दिशमास्थिताः
शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः। सुस्थलाश्च सुकुट्टाश्च कुलिन्दाः कुन्तिभिः सह
शाल्वायनाश्च राजानः सोदर्यानुचरैः सह। दक्षिणा ये च पञ्चालाः पूर्वाः कुन्तिषु कोसलाः