अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम्। अथैवमुक्ते नृपतावृत्विग्भिर्ऋषिभिस्तथा
मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन्। स तु राजा महाप्राज्ञः पुनरेवात्मनाऽऽत्मवान्
भूयो विममृशे पार्थो लोकानां हितकाम्यया। सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ
विमृश्य सम्यक् च धिया कुर्वन्प्राज्ञो न सीदति। नहि यज्ञसमारम्भः केवलात्मविनिश्चयात्
भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन्। स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम्
सर्वलोकात्परं मत्वा जगाम मनसा हरिम्। अप्रमेयं महाबाहुं कामाञ्जातमजं नृषु
पाण्डवस्तर्कयामास कर्मभिर्देवसंमतैः। नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम्
न स किञ्चिन्न विषहेदिति कृष्णममन्यत। स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः
गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा। शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान्
द्वारकावासिनं कृष्णं द्वारवत्यां समासदत्। ` स प्रभुं प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम्
धर्मराजो हृषीकेश धौम्यव्यासादिभिः सह। पाञ्चालमात्स्यसहितैर्भ्रातृभिश्चैव सर्वशः
त्वद्दर्शनं महाबाहो काङ्क्षते स युधिष्ठिरः
इन्द्रसेनवचः श्रुत्वा यादवप्रवरो बली'। दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः
आमन्त्र्य राजन्सुहृदो वसुदेवं च माधवः'। इन्द्रसेनेन सहित इन्द्रप्रस्थमगात्तदा। व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनवः
इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः। स गृहे पितृवद्धात्रा धर्मराजेन पूजितः
भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः। प्रीतः प्रीतेन सुहृदा रेमे स सहितस्तदा
अर्जुनेन यमाभ्यां च गुरुवत्पर्युपासितः। तं विश्रान्तं शुभे देशे क्षणिनं कल्पमच्युतम्। धर्मराजः समागम्य ज्ञापयत्स्वप्रयोजनम्
प्रार्थितो राजसूयो मे न चासौ केवलेप्सया। प्राप्यते येन तत्ते हि विदितं कृष्ण सर्वशः
यस्मिन्सर्वं सम्भवति यश्च सर्वत्र पूज्यते। यश्च सर्वेश्वरो राजा राजसूयं स विन्दति
तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे। तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत्
केचिद्धि सौहृदा देवे न दोषं परिचक्षते। स्वार्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत
प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम्। एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने
त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्युदस्य च। परमं यत्क्षमं लोके यथावद्वक्तुमर्हसि
सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि। जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत
जामदग्न्येन रामेण क्षत्रं यदवशेषितम्। तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम्
कृतोऽयं कलुसङ्कल्पः क्षत्रियैर्वसुधाधिप। निदेशवाग्भिस्तत्तेह विदितं भरतर्षभ
ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते। राजानः श्रेणिबद्धाश्च तथाऽन्ये क्षत्रिया भुवि
ऐलवंश्याश्च ये राजंस्तथैवेक्ष्वाकवो नृपाः। तानि चैकशतं विद्धि कुलानि भरतर्षभ
ययातेस्त्वेव भोजानां विस्तरो गुणतो महान्। भजतेऽद्य महाराज विस्तरं सचतुर्दिशम्
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते। इदानीमेव वै राजञ्जरासन्धो महीपतिः