कामतोऽप्युपयुञ्जानै राजसैर्लोभजैर्जनैः। सर्वव्यापी सर्वगुणी सर्वसाहः स सर्वराट्
यस्मिन्नधिकृतः सम्राड् भ्राजमानो महायशाः। यत्र राजन्दश दिशः पितृतो मातृतस्तथा। अनुरक्ताः प्रजा आसन्नागोपाला द्विजातयः
स मन्त्रिणः समानाय्य भ्रातृंश्च वदतां वरः। bराजसूयं प्रति तदा पुनः पुनरपृच्छत
ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा। युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन्
येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति। तेन राजाऽपि तं कुत्स्नं सम्राड्गुणमभीप्सृति
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन। राजसूयस्य समयं मन्यन्ते सुहृदस्तव
तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसम्पदा। साम्ना षडग्नयो यस्मिंश्चीयन्ते शंसितव्रतैः
दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून्। अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते
समर्थोऽसि महाबाहो सर्वे ते वशगा वयम्। अचिरात्त्वं महाराज राजसूयमवाप्स्यसि
अविचार्य महाराज राजसूये मनः कुरु। इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन्
स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशाम्पते। धृष्टमिष्टं वरिष्टं च जग्राह मनसाऽरिहा
श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम्। `स प्रशस्तक्रियारम्भः परीक्षामुपचक्रमे
चतुर्भिर्भीमसेनाद्यैर्भ्रातृभिः सहितो हितम्। एवमुक्तस्तथा पार्थो धर्म एव मनो दधे
स राजसूयं राजेन्द्रः कुरूणामृषभः क्रतुम्। जगाम मनसा सद्य आहरिष्यन्युधिष्ठिरः
भूयस्त्वद्भुतवीर्योपि धर्ममेवानुपालयन् '। पुनः पुनर्मनो दध्रे राजसूयाय भारत
स भ्रातृभिः पुनर्धीमानृत्विग्निश्च महात्मभिः। मन्त्रिभिश्चापि सहितो धर्मराजो युधिष्ठिरः
धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रवित्। `विराटद्रुपदाभ्यां च सात्यकेन च धीमता
युधामन्यूत्तमौजोभ्यां सौभद्रेण च धीमता। द्रौपदेयैः परं शूरैर्मन्त्रयामास संवृतः
भवन्तो राजसूयस्य सम्राडर्हस्य सुक्रतोः। श्रद्दधानस्य वदत ममावाप्तिः कथं भवेत्
एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन। इदमूचुर्वचः काले धर्मराजं युधिष्ठिरम्
अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम्। अथैवमुक्ते नृपतावृत्विग्भिर्ऋषिभिस्तथा
मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन्। स तु राजा महाप्राज्ञः पुनरेवात्मनाऽऽत्मवान्
भूयो विममृशे पार्थो लोकानां हितकाम्यया। सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ
विमृश्य सम्यक् च धिया कुर्वन्प्राज्ञो न सीदति। नहि यज्ञसमारम्भः केवलात्मविनिश्चयात्
भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन्। स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम्
सर्वलोकात्परं मत्वा जगाम मनसा हरिम्। अप्रमेयं महाबाहुं कामाञ्जातमजं नृषु
पाण्डवस्तर्कयामास कर्मभिर्देवसंमतैः। नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम्
न स किञ्चिन्न विषहेदिति कृष्णममन्यत। स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः
गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा। शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान्
द्वारकावासिनं कृष्णं द्वारवत्यां समासदत्। ` स प्रभुं प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम्