तपसा ये च तीव्रेण त्यजन्तीह कलेवरम्। ते तत्स्थानं समासाद्य श्रीमन्तो भान्ति नित्यशः
पिता च त्वाऽऽह कौन्तेय पाण्डुः कौरवनन्दन। हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः
विज्ञाय मानुषं लोकमायान्तं मां नराधिप। प्रोवाच प्रणतो भूत्वा वदेथास्त्वं युधिष्ठिरम्
समर्थोऽसि महीं जेतुं भ्रातरस्ते स्थिता वशे। राजसूयं क्रतुश्रेष्ठमहारस्वेति भारत
त्वयीष्टवति पुत्रेऽहं हरिश्चन्द्रवदाशु वै। मोदिष्ये बहुलाः शश्वत्समाः शक्रस्य संसदि
एवं भवतु वक्ष्येऽहं तव पुत्रं नराधिपम्। भूलोकं यदि गच्छेयमिति पाण्डुमथाब्रुवम्
तस्य त्वं पुरुषव्याघ्र सङ्कल्पं कुरु पाण्डव। गन्तासित्वं महेन्द्रस्य पूर्वैः सह सलोकताम्
बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान्। छिद्राण्यस्य वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः
युद्धं च क्षत्रशमनं पृथिवीक्षयकारणम्। किञ्चिदेव निमित्तं च भवत्यत्र क्षयावहम्
एतत्सञ्चिन्त्य राजेन्द्र यत्क्षमं तत्समाचर। अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे
भव एधस्व मोदस्व धनैस्तर्पय च द्विजान्। एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि। आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति
एवमाख्याय पार्थेभ्यो नारदो जनमेजय। जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः
गते तु नारदे पार्थो भ्रातृभिः सह कौरवः। राजसूयं क्रतुश्रेष्ठं चिन्तयामास पार्थिवः
ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः। चिन्तयन्राजसूयेष्टिं न लेभे शर्म भारत
राजर्षीणां च तं श्रुत्वा महिमानं महात्मनाम्। यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च
हरिश्चन्द्रं च राजर्षि रोजमानं विशेषतः। यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः
युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः। प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे
स राजसूयं राजेन्द्र कुरूणामृषभस्तदा। आहर्तुं प्रवणं चक्रे मनः सञ्चिन्त्य चासकृत्
भूयश्चाद्भुतवीर्यौजा धर्ममेवानुचिन्तयन्। किं हितं सर्वलोकानां भवेदिति मनो दधे
अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मभृतां वरः। अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः
सर्वेषां दीयतां देयं मुष्णन्कोपमदावुभौ। साधु धर्मेति धर्मेति नान्यच्छ्रूयेत भाषितम्
एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः। न तस्य विद्यते द्रेष्टा ततोऽस्याजातशत्रुता
परिग्रहान्नरेन्द्रस्य भीमस्य परिपालनात्। शत्रूणां क्षपणाच्चैव बीभत्सोः सव्यसाचिनः
बलीनां सम्यगुत्थानान्नकुलस्य यशस्विनः'। धीमतः सहदेवस्य धर्माणामनुशासनात्
वैनत्यात्सर्वतश्चैव नकुलस्य स्वभावतः। अविग्रहा वीतभयाः स्वकर्मनिरताः सदा
निकामवर्षाः स्फीताश्च आसञ्जनपदास्तथा। वार्धुषी यज्ञसत्वानि गोरक्षं कर्षणं वणिक्
विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणा। अनुकर्षं च निष्कर्षं व्याधिपावकमूर्छनम्
सर्वमेव न तत्रासीद्धर्मनित्ये युधिष्ठिरे। दस्युभ्यो वञ्चकेभ्यश्च राज्ञः प्रति परस्परम्
राजवल्लभतश्चैव नाश्रूयत मृषाकृतम्। प्रियं कर्तुमुपस्थातुं बलिकर्म स्वकर्मजम्
अभिहर्तुं नृपाः षट्सु पृथक्जात्यैश्च नैगमैः। ववृधे विषयस्तत्र धर्मनित्ये युधिष्ठिरे