तथा तैरुपयातैश्च प्रतियद्भिश्च भारत। आकुला सा सभातात भवति स्म सुखप्रदा
सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता। ब्राहया श्रिया दीप्यमाना शुशुभे विगतक्लमा
सा सभा तादृशी दृष्टा मया लोकेषु दुर्लभा। सभेयं राजशार्दूल मनुष्येषु यथा तव
एता मया दृष्टपूर्वाः सभा देवेषु भारत। सभेयं मानुषे लोके सर्वश्रेष्ठतमा तव
प्रायशो राजलोकस्ते कथितो वदतां वर। वैवस्वतसभायां तु यथा वदसि मे प्रभो
वरुणस्य सभायां तु नागास्ते कथिता विभो। दैत्येन्द्राश्चापि भूयिष्ठाः सरितः सागरास्तथा
तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा। गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः
पितामहसभायां तु कथितास्ते महर्षभः। सर्वे देवनिकायाश्च सर्वशास्त्राणि वैव ह
शक्रस्य तु सभायां तु देवाः सङ्कीर्तिता मुने। उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः
एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने। कथितस्ते सभायां वै देवेन्द्रस्य महात्मनः
किं कर्म तेनाचरितं तपो वा नियतव्रत। येनासौ सह शक्रेण स्पर्धदे सुमहायशाः
पितृलोकगतश्चैव त्वया विप्र पिता मम। दृष्टः पाण्डुर्महाभागः कथं वाऽपि समागतः
किमुक्तवांश्च भगवंस्तन्ममाचक्ष्व सुव्रत। त्वत्तः श्रोतुं सर्वमिदं परं कौतूहलं हि मे
यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो। तत्तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः
इक्ष्वाकूणां कुले जातस्त्रिशङ्कुर्नाम पार्थिवः। अयोध्याधिपतिर्वीरो विश्वामित्रेण संस्थितः
तस्य सत्यवती नाम पत्नी केकयवंशजा। तस्यां गर्भः समभवद्धर्मेण कुरुनन्दन
सा च काले महाभागा राजन्मासं प्रविश्य च। कुमारं जनयामास हरिश्चन्द्रमकल्मषम्। स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः
स राजा बलवानासीत्सम्राट् सर्वमहीक्षिताम्। तस्य सर्वे महीपालाः शासनावनताः स्थिताः
तेनैकं रथमास्थाय जैत्रं हेमविभूषितम्। शस्त्रप्रतापेन जिता द्वीपाः सप्त जनेश्वर
स निर्जित्य महीं कृत्स्नां सशैलवनकाननाम्। आजहार महाराज राजसूयं महाक्रतुम्
तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया। द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन्
समाप्तयज्ञो विधिवद्धरिश्चन्द्रः प्रतापवान्। अभिषिक्तश्च शुशुभे साम्राज्येन नराधिपः
राजसूयेऽभिषिक्तश्च समाप्तवरदक्षिणे
प्रादाच्च द्रविणं प्रीत्या याचकानां नरेश्वरः। यथोक्तवन्तस्ते तस्मिंस्ततः पञ्चगुणाधिकम्
अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तदा। प्रसर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान्
भक्ष्यभोज्यैश्च विविधैर्यथाकामपुरस्कृतैः। रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम्। तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत्
एतस्मात्कारणाद्राजन्हरिश्चन्द्रो विराजते। तेभ्यो राजसहस्रेभ्यस्तद्विद्वि भरतर्षभ
समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान्। अभिषिक्तश्च शुशुभे साम्राज्येन नराधिप
ये चान्ये च महीपाला राजसूयं महाक्रतुम्। यजन्ते ते सहेन्द्रेण मोदन्ते भरतर्षभ
ये चापि नि नं प्राप्ताः सङ्ग्रामेष्वपलायिनः। ते तत्सदनम् ताद्य मोन्दते भरतर्षभ