धर्मचक्रं तथा चापि नित्यमास्ते युधिष्ठिर। अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा
कालिका सुरभी देवी सरमा चाथ गौतमी
प्रभा कद्रूश्च वै देव्यौ देवतानां च मातरः। रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथाऽपरा
पृथिवी गां गता देवी ह्रीः स्वाहा कीर्तिरेव च। सुरा देवी शची चैव तथा पुष्टिररुन्धती
संवृत्तिराशा नियतिः सृष्टिर्देवी रतिस्तथा। एताश्चान्याश्चवै देव्य उपतस्थुः प्रजापतिम्
आदित्या वसवो रुद्रा मरुतश्चास्विनावपि। विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः
पितृणां च गणान्विद्धि सप्तैव पुरुषर्षभ। मूर्तिमन्तो वै चत्वारस्त्रयश्चापि शरीरिणः
वैराजश्च महाभागा अग्निष्वात्ताश्च भारत। गार्हपत्या नाकचराः पितरो लोकविश्रुताः
सोमपा एकशृङ्गाश्च चतुर्वेदाः कलास्तथा। एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप
एतैराप्यायितैः पुर्वं सोमश्चाप्याय्यते पुनः। त एते पितरः सर्वे प्रजापतिमुपस्थिताः
उपासते च संहृष्टा ब्रह्माणममितौजसम्। राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा
नागाः सुपर्णाः पशवः पितामहमुपासते। स्थावरा जङ्गमाश्चैव महाभूतास्तथाऽपरे
पुरन्दरश्च देवेन्द्रो वरुणो धनदो यमः। महादेवः सहोमोऽत्र सदा गच्छति सर्वशः
महासेनश्च राजेन्द्र सदोपास्ते पितामहम्। देवो नारायणस्तस्यां तथा देवर्षयश्च ये
ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा। यच्च किञ्चित्रिलोकेऽस्मिन्दृश्यते स्थाणु जङ्गमम्। सर्वं तस्यां मया दृष्टमिति विद्धि नराधिप
अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम्। प्रजावतां च पञ्चाशदृषीणामपि पाण्डव
ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः। प्रणम्य शिरसा तस्मै सर्वे यान्ति यथागमम्
अतिथीनागतान्देवान्दैत्यान्नागांस्तथा द्विजान्। यक्षान्मुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा
महाभागानमितधीर्ब्रह्मा लोकपितामहः। दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते
प्रतिगृह्य तु विश्वात्मा स्वयं स्वयम्भूरमितद्युतिः। सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप
तथा तैरुपयातैश्च प्रतियद्भिश्च भारत। आकुला सा सभातात भवति स्म सुखप्रदा
सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता। ब्राहया श्रिया दीप्यमाना शुशुभे विगतक्लमा
सा सभा तादृशी दृष्टा मया लोकेषु दुर्लभा। सभेयं राजशार्दूल मनुष्येषु यथा तव
एता मया दृष्टपूर्वाः सभा देवेषु भारत। सभेयं मानुषे लोके सर्वश्रेष्ठतमा तव
प्रायशो राजलोकस्ते कथितो वदतां वर। वैवस्वतसभायां तु यथा वदसि मे प्रभो
वरुणस्य सभायां तु नागास्ते कथिता विभो। दैत्येन्द्राश्चापि भूयिष्ठाः सरितः सागरास्तथा
तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा। गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः
पितामहसभायां तु कथितास्ते महर्षभः। सर्वे देवनिकायाश्च सर्वशास्त्राणि वैव ह
शक्रस्य तु सभायां तु देवाः सङ्कीर्तिता मुने। उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः
एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने। कथितस्ते सभायां वै देवेन्द्रस्य महात्मनः