भृगुरत्रिर्वसिष्ठश्च गौतमोऽथ तथाङ्गिराः। पुलस्त्यश्च कतुश्चैव प्रह्लादः कर्दमस्तथा
अथर्वाङ्गिरसश्चैव वालखिल्या सरीचिपाः। मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही
शब्दस्पर्शौ तथा रूपं रसो गन्धश्च भारत। प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः
अगस्त्यश्च महातेजा मार्कण्डेयश्च वीर्यवान्। जमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा
दुर्वासाश्च महाभाग ऋष्णशृङ्गश्च धार्मिकः। सनत्कुमारो भगवान्योगाचार्यो महातपाः
असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित्। ऋषभो जितशत्रुश्च महावीर्यस्तथा मणिः
आयुर्वेदस्तथाऽष्टाङ्गो देहवांस्तत्र भारत। चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान्
वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च। मूर्तिमन्तो महात्मानो महाव्रतपरायणाः
एते चान्ये च बहवो ब्रह्माणं समुपस्थिताः। अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः
आयान्ति तस्यां सहिता गन्धर्वाप्सरसां गणाः। विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः
शुक्रो बृहस्पतिश्चैव बुधोऽङ्कारक एव च। शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च
मन्त्रो रथन्तरं चैव हरिमान्वसुमानपि। आदित्याः साधिराजानो नामद्वन्द्वैरुदाहृताः
मरुतो विश्वकर्मा च वसवश्चैव भारत। तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ
ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव। अथर्ववेदश्च तथा सर्वशास्त्राणि चैव ह
इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः। ग्रहा यज्ञाश्च सोमश्च देवताश्चापि सर्वशः
सावित्री दुर्गतरणी वाणी सप्तविधा तथा। मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा
सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा। भाष्याणि तर्कयुक्तानि देहवन्ति विशाम्पते
नाटका विविधाः काव्याः कथाख्यायिकारिकाः । तत्रतिष्ठन्ति ते पुण्या ये चान्ये गुरुपूजकाः
क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च। अर्धमासाश्च मासाश्च ऋतवः षट् च भारत
संवत्सराः पञ्ययुगमहोरात्रश्चतुर्विधः। कालचक्रं च तद्दिव्यं नित्यमक्षयमव्ययम्
धर्मचक्रं तथा चापि नित्यमास्ते युधिष्ठिर। अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा
कालिका सुरभी देवी सरमा चाथ गौतमी
प्रभा कद्रूश्च वै देव्यौ देवतानां च मातरः। रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथाऽपरा
पृथिवी गां गता देवी ह्रीः स्वाहा कीर्तिरेव च। सुरा देवी शची चैव तथा पुष्टिररुन्धती
संवृत्तिराशा नियतिः सृष्टिर्देवी रतिस्तथा। एताश्चान्याश्चवै देव्य उपतस्थुः प्रजापतिम्
आदित्या वसवो रुद्रा मरुतश्चास्विनावपि। विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः
पितृणां च गणान्विद्धि सप्तैव पुरुषर्षभ। मूर्तिमन्तो वै चत्वारस्त्रयश्चापि शरीरिणः
वैराजश्च महाभागा अग्निष्वात्ताश्च भारत। गार्हपत्या नाकचराः पितरो लोकविश्रुताः
सोमपा एकशृङ्गाश्च चतुर्वेदाः कलास्तथा। एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप
एतैराप्यायितैः पुर्वं सोमश्चाप्याय्यते पुनः। त एते पितरः सर्वे प्रजापतिमुपस्थिताः