निधिप्रवरमुख्यौ च शङ्खपद्मौ धनेश्वरौ। सर्वान्निधीन्प्रगृह्याथ उपास्तां वै धनेश्वरम्
सा सभा तादृशी रम्या मया दृष्टान्तरिक्षगा। पितामहसभां राजन्कीर्तयिष्ये निबोध ताम्
पितामहसभां तात कथ्यमानां निबोध मे। शक्यते या न निर्देष्टुमेवंरूपेति भारत
पुरा देवयुगे राजन्नादित्यो भगवान्दिवः। आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः
चरन्मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः। स तामकथयन्मह्यं दृष्ट्वा तत्त्वेन पाण्डव
अप्रमेयां सभां दिव्यां मानसीं भरतर्षभ। अनिर्देश्यां प्रभावेण सर्वभूतमनोरमाम्
श्रुत्वा गुणानहं तस्याः सभायाः पाण्डवर्षभ। दर्शनेप्सुस्तथा राजन्नादित्यमिदमब्रुवम्
भगवन्द्रष्टुमिच्छामि पितामहसभां शुभाम्। येन वा तपसा शक्या कर्मणा वाऽपि गोपते
औषधैर्या तथा युक्तैरुत्तमा पापनाशिनी। तन्ममाचक्ष्व भगवन्पश्येयं तां सभां यथा
स तन्मम वचः श्रुत्वा सहस्रांशुर्दिवाकरः। प्रोवाच भारतश्रेष्ठ व्रतं वर्षसहस्रकम्
ब्रह्मव्रतमुपास्स्व त्वं प्रयतेनान्तरात्मना। ततोऽहं हिमवत्पृष्ठे समारब्दो महाव्रतम्
ततः स भगवान्सूर्यो मामुपादाय वीर्यवान्। आगच्छत्तां सभां ब्राह्मीं विपाप्मा विगतक्लमः ?
एवंरूपेति सा शक्या न निर्देष्टुं नराधिप। क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा
न वेद परिमाणं वा संस्थानं चापि भारत। न च रूपं मया तादृक् दृष्टपूर्वं कदाचन
सुसुखा सा सदा राजन्न शीता न च घर्मदा। न क्षुत्पिपासे न ग्लानिं प्राप्यतां प्राप्तुवन्त्युत
नानारूपैरिव कृता मणिभिः सा सुभास्वरैः। स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा
दिव्यैर्नानाविधैर्भावैर्भासद्भिरमितप्रभैः
अति चन्द्रं च सूर्यं च शिखिनं च स्वयम्प्रभा। दीप्यते नाकपृष्ठस्था भर्त्सयन्वीव भास्करम्
तस्यां स भगवानास्ते विदधद्देवमायया। स्वयमेकोऽनिशं राजन्सर्वलोकपितामहः
उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम्। दक्षः प्रचेताः पुलहो मरीचिः कश्यपः प्रभुः
भृगुरत्रिर्वसिष्ठश्च गौतमोऽथ तथाङ्गिराः। पुलस्त्यश्च कतुश्चैव प्रह्लादः कर्दमस्तथा
अथर्वाङ्गिरसश्चैव वालखिल्या सरीचिपाः। मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही
शब्दस्पर्शौ तथा रूपं रसो गन्धश्च भारत। प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः
अगस्त्यश्च महातेजा मार्कण्डेयश्च वीर्यवान्। जमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा
दुर्वासाश्च महाभाग ऋष्णशृङ्गश्च धार्मिकः। सनत्कुमारो भगवान्योगाचार्यो महातपाः
असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित्। ऋषभो जितशत्रुश्च महावीर्यस्तथा मणिः
आयुर्वेदस्तथाऽष्टाङ्गो देहवांस्तत्र भारत। चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान्
वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च। मूर्तिमन्तो महात्मानो महाव्रतपरायणाः
एते चान्ये च बहवो ब्रह्माणं समुपस्थिताः। अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः
आयान्ति तस्यां सहिता गन्धर्वाप्सरसां गणाः। विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः