सदा भगवती लक्ष्मीस्तत्रैव नलकूबरः। अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः
ब्रह्मर्षयो भवन्त्यत्र तथा देवर्षयोऽपरे। क्रव्यादाश्च तथैवान्ये गन्धर्वाश्च महाबलाः
उपासते महात्मानं तस्यां धनदमीश्वरम्। भगवान्भूतसङ्घैश्च वृतः शतसहस्रशः
उमापतिः पशुपतिः शूलभृद्भगनेत्रहा। त्र्यम्बको राजशार्दूल देवी च विगतक्लमा
वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्महारवैः। मेदोमांसाशनैरुग्रैरुग्रधन्वा महाबलः
नानाप्रहरणैरुग्रैर्वातैरिव महाजवैः। वृतः सखायमन्वास्ते सदैव धनदं नृप
प्रहृष्टाः शतशश्चान्ये बहुशः सपरिच्छदाः। गन्धर्वाणां च पतयो विश्वावसुर्हहा हुहूः
तुम्बुरुः प्रवतश्चैव शैलूषश्च तथाऽपरः। चित्रसेनश्च गीतज्ञस्तथा चित्ररथोपि च
एते चान्ये च गन्धर्वा धनेश्वरमुपासते। विद्याधराधिपश्चैव चक्रधर्मा सहानुजैः
उपाचरति तत्र स्म धनानामीश्वरं प्रभुम्। किन्नराः शतशस्तत्र धनानामीश्वरं प्रभुम्
आसते चापि राजानो भगदत्तपुरोगमाः। द्रुमः किम्पुरुषेशश्च उपास्ते धनदेश्वरम्
राक्षसाधिपतिश्चैव महेन्द्रो गन्धमादनः। सह यक्षैः सगन्धर्वैः सह सर्वैर्निशाचरैः
विभीषणश्च धर्मिष्ठ उपास्ते भ्रातरं प्रभुम्। हिमवान्पारियात्रश्च विन्ध्यकैलासमन्दराः
मलयो दर्दुरश्चैव महेन्द्रो गन्धमादनः। इन्द्रकीलः सुनाभश्च तथा दिव्यौ च पर्वतौ
एते चान्ये च बहवः सर्वे मेरुपुरोगमाः। उपासते महात्मानं धनानामीश्वरं प्रभुम्
नन्दीश्वरश्च भगवान्महाकालस्तथैव च। शङ्कुकर्णमुखाः सर्वे दिव्याः पारिषदास्तथा
काष्ठः कुटी मुखो दन्ती विजयश्च तपोधिकः। श्वेतश्च वृषभस्तत्र नर्दन्नास्ते महाबलः
धनदं राक्षसाश्चान्ये पिशाचाश्च उपासते। पारिषदैः परिवृतमुपायान्तं महेश्वरम्
सदा हि देवदेवेशं शिवं त्रैलोक्यभावनम्। प्रणम्य मूर्ध्ना पौलस्त्यो बहुरूपमुमापतिम्
ततोऽभ्यनुज्ञां सम्प्राप्य महादेवाद्धनेश्वरः। आस्ते कदाचिद्भगवान्भवो धनपतेः सखा
निधिप्रवरमुख्यौ च शङ्खपद्मौ धनेश्वरौ। सर्वान्निधीन्प्रगृह्याथ उपास्तां वै धनेश्वरम्
सा सभा तादृशी रम्या मया दृष्टान्तरिक्षगा। पितामहसभां राजन्कीर्तयिष्ये निबोध ताम्
पितामहसभां तात कथ्यमानां निबोध मे। शक्यते या न निर्देष्टुमेवंरूपेति भारत
पुरा देवयुगे राजन्नादित्यो भगवान्दिवः। आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः
चरन्मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः। स तामकथयन्मह्यं दृष्ट्वा तत्त्वेन पाण्डव
अप्रमेयां सभां दिव्यां मानसीं भरतर्षभ। अनिर्देश्यां प्रभावेण सर्वभूतमनोरमाम्
श्रुत्वा गुणानहं तस्याः सभायाः पाण्डवर्षभ। दर्शनेप्सुस्तथा राजन्नादित्यमिदमब्रुवम्
भगवन्द्रष्टुमिच्छामि पितामहसभां शुभाम्। येन वा तपसा शक्या कर्मणा वाऽपि गोपते
औषधैर्या तथा युक्तैरुत्तमा पापनाशिनी। तन्ममाचक्ष्व भगवन्पश्येयं तां सभां यथा
स तन्मम वचः श्रुत्वा सहस्रांशुर्दिवाकरः। प्रोवाच भारतश्रेष्ठ व्रतं वर्षसहस्रकम्