ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः। विनाद्य खं दिवमपि चैव सर्वश- स्ततो गताः सलिलधरा यथागतम्
ततोऽमृतं सुनिहितमेव चक्रिरे सुराः पुरां मुदमभिगम्य पुष्कलाम्। ददो च तं निधिममृतस्य रक्षितुं किरीटिने बलभिदथामरैः सह
एतत्ते कथितं सर्वममृतं मथितं यथा। यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः
तं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत्। उच्चैःश्रवा हि किंवर्णो भद्रे प्रब्रूहि मा चिरम्
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे। ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे
कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते। एहि सार्धं मया दीव्य दासीभावाय भामिनि
एवं ते समयं कृत्वा दासीभावाय वै मिथः। जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह
ततः पुत्रसहस्रं तु कद्रूर्जिह्यं चिकीर्षती। आज्ञापयामास तदा वाला भूत्वाऽञ्जनप्रभाः
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा। नावपद्यन्त ये वाक्यं ताञ्शशाप भुजंगमान्
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति। जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः
शापमेनं तु शुश्राव स्वयमेव पितामहः। अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत। बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः। तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च
युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम्। अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये
तेषां प्राणान्तिको दण्डो दैवेन विनिपात्यते। एवं संभाष्य देवस्तु पूज्य कद्रूं च तां तदा
आहूय कश्यपं देव इदं वचनमब्रवीत्। यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ
विषोल्बणा महाभोगा मात्रा शप्ताः परंतप। तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन
दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम्। इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम्। प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने
एवं शप्तेषु नागेषु कद्र्वातु द्विजसत्तम। अद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकोऽब्रवीत्
मातरं परमप्रीतस्तथा भुजगसत्तमः। आविश्य वाजिनं मुख्यं बालो भूत्वाञ्जनप्रभः
दर्शयिष्यामि तत्राहमात्मानं काममाश्वस। एवमस्त्विति सा पुत्रं प्रत्युवाच यशस्विनी
ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ। कद्रूश्च विनता चैव भगिन्यौ ते तपोधन
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा। `स्मगरस्य परं पारं वेलावनविभूषितम्।' जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात्
ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम्। महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम्
तिमिंगिलझषाकीर्णं मकरैरावृतं तथा। सत्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्
भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा। उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्
आकरं सर्वरत्नानामालयं वरुणस्य च। नागानामालयं रम्यमुत्तमं सरितां पतिम्
पातालज्वलनावासमसुराणां च बान्धवम्। भयंकरं च सत्त्वानां पयसां निधिमर्णवम्
शुभं दिव्यममर्त्यानाममृतस्याकरं परम्। अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्
घोरं जलचरारावरौद्रं भैरवनिःस्वनम्। गम्भीरावर्तकलिलं सर्वभूतभयंकरम्