गोदावरी कृष्णवेणी कावेरी च सरिद्वरा। किम्पुना च विशल्या च तथा वैतरणी नदी
तृतीया ज्येष्ठिला चैव शोणश्चापि महानदः। चर्मण्वती तथा चैव पर्णाशा च महानदी
सरयूर्वारवत्याऽथ लाङ्गली च सरिद्वरा। करतोया तथाऽऽत्रेयी लौहित्यश्च महानदः
लङ्घती गोमती चैव सन्ध्या त्रिस्रोतसी तथा। एताश्चन्याश्च राजेन्द्र सुतीर्था लोकविश्रुताः
सरितः सर्वतश्चान्यास्तीर्थानि च सरांसि च। कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर
पल्वलानि तटाकानि देहवन्त्यथ भारत। दिशस्तथा मही चैव तथा सर्वे महीधराः
उपासते महात्मानं सर्वे जलचरास्तथा। गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः
स्तुवन्तो वरुणं तस्यां सर्व एव समासते। महीधरा रत्नवन्तो रसा ये च प्रतिष्ठिताः
कथयन्तः सुमधुराः कथास्तत्र समासते। वारुणश्च तथा मन्त्री सुनाभः पर्युपासते
पुत्रपौत्रैः परिवृतो गोनाम्ना पुष्करेण च। सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते
एषा मया सम्पतता वारुणी भरतर्षभ। दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु
सभा वैश्रवणी राजञ्शतयोजनमायता। विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा
तपसा निर्जिता राजन्स्वयं वैश्रवणेन सा। शशिप्रभा प्रावरणा कैलासशिखरोपमा
गुह्यकैरुह्यमाना सा खे विषक्तेव शोभते। दिव्या हेममयैरुच्चैः प्रासादैरुपशोभिता
महारत्नवती चित्रा दिव्यगन्धा मनोरमा। सिताभ्रशिखराकारा प्लवमानेव दृश्यते
दिव्या हेममयै रङ्गैर्विद्युद्भिरिव चित्रिता। तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः
स्त्रीसहस्रैर्वृतः श्रीमानास्ते ज्वलितकुण्डलः। `सह पत्न्या महाराज ऋद्ध्या सह विराजते
सर्वाभरणभूषिण्या वपुष्मत्या धनेश्वरः'। दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते। दिव्यपादोपधाने च निषण्णः परमासने
मन्दाराणामुदाराणां वनानि परिलोडयन्। सौगन्धीकवनानां च गन्धं गन्धवहो वहन्
नलिन्याश्चालकाख्याया नन्दनस्य वनस्य च। शीतो हृदयसंह्लादी वायुस्तमुपसेवते
तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः। दिव्यतानैर्महाराज गायन्तिस्म सभागताः
मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता। चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला
विश्वाची सहजन्या च प्रम्लोचा उर्वशी
वर्गा च सौरभेयी च समीची बुद्बुदा लता। एताः सहस्रशश्चान्या नृत्तगीतविशारदाः
उपतिष्ठन्ति धनदं गन्धर्वाप्सरसां गणाः। अनिशं दिव्यवादित्रैर्नृत्तगीतैश्च स सभा
अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः। किन्नरा नाम गन्धर्वा नरा नाम तथाऽपरे
माणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः। कशेरको गण्डकण्डूः प्रद्योतश्च महाबलः
कुस्तम्बरुः पिशाचश्च गजकर्णो विशालकः। वराहकर्णस्ताम्रौष्ठः फलकक्षः फलोदकः
हंसचूडः शइखावर्तो हेमनेत्रो विभीषणः। पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः
वृक्षवास्यनिकेतश्च चीरवासाश्च भारत। एते चान्ये च बहवो यक्षाः शतसहस्रशः