ज्वलन्ती भासमाना च तेजसा स्वेन भारत। तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः
शान्ताः सन्यासिनः शुद्धाः पूताः पुण्येन कर्मणा। सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः
चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः। सुकृतैः कर्मभिः पुण्यैः पारिबर्हैश्च भूषिताः
गन्धर्वाश्च महात्मानः सङ्घशश्चाप्सरोगणाः। वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः
पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः। दिव्यानि चैव माल्यानि उपतिष्ठन्ति नित्यशः
शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम्। उपासते महात्मानं रूपयुक्ता मनस्विनः
ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः। वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम्
युधिष्ठिर सभा दिव्या वरुणस्यामितप्रभा। प्रमाणेन यथा याम्या शुभप्राकारतोरणा
अन्तः सलिलमास्थाय विहिता विश्वकर्मणा। दिव्यै रत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता
नीलपीतैः सिताः श्यामैः सितैर्लोहितकैरपि। अवतानैस्तथा गुल्मैर्मञ्जरीजालधारिभिः
तथा शकुनयस्तस्यां विचित्रा मधुरस्वराः। अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः
सा सभा सुखसंस्पर्शा न शीता न च धर्मदा। वेश्मासनवती रम्या सिता वरुणपालिता
यस्यामास्ते स वरुणो वारुण्या च समन्वितः। दिव्यरत्नाम्बरधरो दिव्याभरणभूषितः
?द्वितीयेन तु नाम्ना वै गौरीति भुवि विश्रुता। पत्न्या सवरुणो देवः प्रमोदति सुखी सुखम्
स्रग्विणो दिव्यगन्धाश्च दिव्यगन्धानुलेपनाः। आदित्यास्तत्र वरुणं जलेश्वरमुपासते
वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा। कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान्
कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ। मणिमान्कुण्डधारश्च कर्कोटकधनञ्जयौ
पाणिमान्कुण्डधारश्च बलवान्पृथिवीपते। प्रह्रादो मुषिकादश्च तथैव जनमेजयः
पताकिनो मण्डलिनः फणवन्तश्च सर्वशः। ` अर्थो धर्मश्च कामश्च वसुः कपिल एव च
अनन्तश्च महानागो यं दृष्ट्वा जलजेश्वरः। अभ्यर्चयति सत्कारैरासनेन च तं विभुः
वासुकिप्रमुखाश्चैव सर्वे प्राञ्जलयः स्थिताः। अनुज्ञाताश्च शेषेण यथार्हमुपविश्य च
एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर। `वैनतेयश्च गरुडो ये चास्य परिचारिणः'। उपासते महात्मानं वरुणं विगतक्लमाः
बलिर्वैरोचनो राजा नरकः पृथिवीञ्जयः। संह्रादो विप्रचित्तिश्च कालखञ्जाश्च दानवाः
सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिस्ततः। घटोदरो महापार्श्वः क्रथनः पिठरस्तथा
विश्वरूपः स्वरूपश्च विरूपोऽथ महाशिराः। दशग्रीवश्च वाली च मेघवासा दशावरः
टिट्टिभो विटभूतश्च संह्रादश्चेन्द्रतापनः। दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः
स्रग्विणो मौलिनश्चैव तथा दिव्यपरिच्छदाः। सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः
ते तस्यां वरुणं देवं धर्मपाशधरं सदा। उपासते महात्मानं सर्वे सुचरितव्रताः
तथा समुद्राश्चत्वारो नदी भागीरथी च सा। कालिन्दी विदिशा वेणा नर्दमा वेगवाहिनी
विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती। इरावती वितस्ता च सिन्धुर्देवनदी तथा