सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः। रसवच्च प्रभूतं च भक्ष्यं भोज्यमरिन्दम
लेह्यं चोप्यं च पेयं च हृद्यं स्वादु मनोहरम्। पुण्यगन्धाः स्रजस्तस्य नित्यं कामफला द्रुमाः
रसवन्ति च तोयानि शीतान्युष्णानि चैव हि। तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते। ययातिर्नहुषः पुरुर्मान्धाता सोमको नुगः
त्रसदस्युश्च राजर्षिः कृतवीर्यः श्रुतश्रवाः। अरिष्टनेमिः सिद्धश्च कृतवेगः कृतिर्निमिः
प्रतर्दनः शिबिर्मत्स्यः पृथुलाक्षो बृहद्रथः। वार्तो मरुत्तः कुषिकः साङ्काश्यः साङ्कृतिर्ध्रुवः
चतुरश्चः सदस्योर्मिः कार्तवीर्यश्च पार्थिवः। भरतः सुरथश्चैव सुनीथो निशठोऽनलः
दिवोदासश्च सुमना अम्बरीषो भगीरथः। व्यश्वः सदश्वो वाघ्र्यश्वः पृथुवेगः पृथुश्रवाः
पृपदश्वो वसुमनाः क्षुपश्च सुमहाबलः। रुषद्रुर्वृषसेनश्च पुरुकुत्सो ध्वजी रथी
आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः। औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः
अङ्गो रिष्टश्च वेनश्च दुष्यन्तः सृञ्जयो जयः। भाङ्गासुरिः सुनीथश्च निषधोऽथ वहीनरः
करन्धमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः। ऐलो मरुत्तश्च तथा बलवान्पृथिवीपतिः
कपोतरोमा तृणकः सहदेवार्जुनौ तथा। व्यश्वः साश्वः कृशाश्वश्च शशबिन्दुश्च पार्थिवः
रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः। अलर्कः कक्षसेनश्च गयो गौराओश्व एव च
जामदग्न्यश्च रामश्च नाभागसगरौ तथा। भूरिद्युम्नो महाश्वश्च पृथाशअवो जनकस्तथा
राजा वैन्यो वारिसेनः पुरिजिज्जनमेजयः। ब्रह्मदत्तस्त्रिगर्तिश्च राजोपरिचरस्तथा
इन्द्रद्युम्नो भीमजानुर्गौरपृष्ठोऽनघो लयः। पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित्
अरिष्टनेमिः सुद्युम्नः पृथुलाश्वोऽष्टकस्तथा। शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः। शतं च ब्रह्मदत्तानां वीरिणामीरिणां शतम्
भीष्णाणां द्वे शतेऽप्यत्र भीमानां तु तथा शतम्। शतं च प्रतिविन्ध्यानां शतं नागाः शतं हयाः
पलाशानां शतं ज्ञेयं शतं काशकुशादयः। शान्तनुश्चैव राजेन्द्र पाण्डुश्चैव पिता तव
उशङ्गवः शतरथो देवराजो जयद्रथः। वृषदर्भश्च राजर्षिर्बुद्धिमान्सहमन्त्रिभिः
अथापरे सहस्राणि ये गताः शसबिन्दवः। इष्ट्वाऽश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः
एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः। तस्यां सभायां राजेन्द्र वैवस्वतमुपासते
अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च। यज्वानश्चैव सिद्धाश्च ये न योगशरीरिणः
अग्निष्वात्ताश्च पितरः फेनपाश्वोष्मपाश्च ये। सुधावन्तो बर्हिषदो मूर्तिमन्तस्तथाऽपरे
कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः। नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः
कालस्य नयने युक्ता यमस्य पुरुपाश्च ये। तस्यां शिंशुपपालाशास्तथा काशकुशादयः
उपासते धर्मराजं मूर्तिमन्तो जनाधिप। एते चान्ये च बहवः पितृराजसभासदः। न शक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा
असम्बाधा हि सा पार्थ रम्या कामगमा सभा। दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा