नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः। प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्द्विजोत्तमैः
नारदं प्रत्यवाचेदं धर्मराजो महामनाः। सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम्
किन्द्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः। पितामहं च के तस्यां सभायां पर्युपासते
वासवं देवराजं च यमं वैवस्वतं च के। वरुणं च कुबेरं च सभायां पर्युपासते
एतत्सर्वं यथान्यायं ब्रह्मर्षे वदतस्तव। श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः
एवमुक्तः पाण्डवेन नारदः प्रत्यभाषत। क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः
कथयिष्ये सभां याम्यां युधिष्ठिर निबोध ताम्। वैवस्वतस्य यां पार्थ विश्वकर्मा चकार ह
तैजसी सा सभा राजन्बभूव शतयोजना। विस्तारायामसम्पन्ना भूयसी चापि पाण्डव
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामरूपिणी। नातिशीता च चात्युष्णा मनसश्च प्रहर्षिणी
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम्। न च दैन्यं क्लमो वाऽपि प्रतिकूलं न चाप्युत
सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः। रसवच्च प्रभूतं च भक्ष्यं भोज्यमरिन्दम
लेह्यं चोप्यं च पेयं च हृद्यं स्वादु मनोहरम्। पुण्यगन्धाः स्रजस्तस्य नित्यं कामफला द्रुमाः
रसवन्ति च तोयानि शीतान्युष्णानि चैव हि। तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते। ययातिर्नहुषः पुरुर्मान्धाता सोमको नुगः
त्रसदस्युश्च राजर्षिः कृतवीर्यः श्रुतश्रवाः। अरिष्टनेमिः सिद्धश्च कृतवेगः कृतिर्निमिः
प्रतर्दनः शिबिर्मत्स्यः पृथुलाक्षो बृहद्रथः। वार्तो मरुत्तः कुषिकः साङ्काश्यः साङ्कृतिर्ध्रुवः
चतुरश्चः सदस्योर्मिः कार्तवीर्यश्च पार्थिवः। भरतः सुरथश्चैव सुनीथो निशठोऽनलः
दिवोदासश्च सुमना अम्बरीषो भगीरथः। व्यश्वः सदश्वो वाघ्र्यश्वः पृथुवेगः पृथुश्रवाः
पृपदश्वो वसुमनाः क्षुपश्च सुमहाबलः। रुषद्रुर्वृषसेनश्च पुरुकुत्सो ध्वजी रथी
आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः। औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः
अङ्गो रिष्टश्च वेनश्च दुष्यन्तः सृञ्जयो जयः। भाङ्गासुरिः सुनीथश्च निषधोऽथ वहीनरः
करन्धमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः। ऐलो मरुत्तश्च तथा बलवान्पृथिवीपतिः
कपोतरोमा तृणकः सहदेवार्जुनौ तथा। व्यश्वः साश्वः कृशाश्वश्च शशबिन्दुश्च पार्थिवः
रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः। अलर्कः कक्षसेनश्च गयो गौराओश्व एव च
जामदग्न्यश्च रामश्च नाभागसगरौ तथा। भूरिद्युम्नो महाश्वश्च पृथाशअवो जनकस्तथा
राजा वैन्यो वारिसेनः पुरिजिज्जनमेजयः। ब्रह्मदत्तस्त्रिगर्तिश्च राजोपरिचरस्तथा
इन्द्रद्युम्नो भीमजानुर्गौरपृष्ठोऽनघो लयः। पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित्
अरिष्टनेमिः सुद्युम्नः पृथुलाश्वोऽष्टकस्तथा। शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः। शतं च ब्रह्मदत्तानां वीरिणामीरिणां शतम्
भीष्णाणां द्वे शतेऽप्यत्र भीमानां तु तथा शतम्। शतं च प्रतिविन्ध्यानां शतं नागाः शतं हयाः