अङ्गो वङ्गः सुमित्रश्च शैब्यश्चामित्रकर्शनः। किरातराजः सुमना यवनाधिपतिस्तथा
चाणूरो देवरातश्च भोजो भीमरथश्च यः। श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः
सुकर्मा चेकितानश्च पुरुश्चामित्रकर्शनः। केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः
सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः। अनूपराजो दुर्धर्पः क्रमजिच्च सुदर्शनः
शिशुपालः सहसुतः करूपाधिपतिस्तथा। वृष्णीनां चैव दुर्धर्पाः कुमारा देवरूपिणः
आहुको विपृथुश्चैव गदः सारण एव च। अक्रूरः कृतवर्मा च सत्यकश्च शिनेः सुतः
भीष्मकोऽथाकृतिश्चैव द्युमत्सेनश्च वीर्यवान्। केकयाश्च महेष्वासा यज्ञसेनश्च सोमकिः
केतुमान्वसुमांश्चैव कृतास्त्रश्च महाबलः। एते चान्ये च बहवः क्षत्रिया मुख्यसंमताः
उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम्। अर्जुनं ये व संश्रित्य राजपुत्रा महाबलाः
अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः। तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः
रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः। सुधर्मा चानिरुद्धश्च शैव्यश्च नरपुङ्गवः
एते चान्ये च बहवो राजानः पृथिवीपते। धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः
उपासते महात्मानमासीनं सप्तविंशतिः। चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा
गीतवादित्रकुशलाः साम्यतालविशारदाः। प्रमाणोऽथ लये स्थाने किन्नराः कृतनिश्रमाः
सञ्चोदितास्तुम्बुरुणा गन्धर्वसहितास्तदा। गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः
पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते। तस्यां सभायामासीनाः सुव्रताः सत्यसङ्गराः
दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते
सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम्। प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः
भगवत्याय्यमाहैतं यथावद्धर्मनिश्चयम्। यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया
राजभिर्यद्यथा कार्यं, पुरा वै तन्न संशयः। यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत्
वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो। न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः
एकमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च। ` तं तु विश्रान्तमासीनं देवर्षिममितद्युतिम्'।। मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम्
नादरदं सुस्थमासीनमुपासीनो युधिष्ठिरः। अपृच्छत्पाण्डवस्तत्र राजमध्ये माहद्युतिः
भवात्सञ्चरते लोकान्सदा नानाविधान्बहून्। ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः
ईदृशी भविता काचिद्दृष्टपूर्वा सभा क्वचित्। इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः।। वैशम्पायन उवाच
तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम्। पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा
मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता। सभा मणिमयी राजन्यथेयं तव भारत
सभां तु पितृराजस्य वरुणस्य च धीमतः। कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च
ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम्। दिव्यादिव्यैरभिप्रायैरुपेतां विश्वरूपिणीम्
देवैः पितृगणैः साध्यैर्यज्वभिर्नियतात्मभिः। जुष्टां मुनिगणैः शान्तैर्वेदयज्ञैः सदक्षिणैः।। यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ