पर्वतश्च महाभागो मार्कण्डेयो महामुनिः। पवित्रपाणिः सावर्णो भालुकिर्गालवस्तथा
जङ्घाबन्धुश्च रैभ्यश्च कोपवेगस्तथा भृगुः। हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः
काक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः। पैङ्ग्यो वराहः शुनकः शाण्डिल्यश्च महातपाः
कुक्कुरो वेणुजङ्घोऽथ कालापः कठ एव च। मुनयो धर्मविद्वांसो धृतात्मानो जितेन्द्रियाः
एते चान्ये च बहवो वेदवेदाङ्गपारगाः। उपासते महात्मानं सभायामृषिसत्तमाः
कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः। तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते
श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः। सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान्
कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः। कम्बोजराजः कमठः कम्पनश्च महाबलः
सततं कम्पयामास यवनानेक एव यः। बलपौरुषसम्पन्नान्कृतास्त्रानमितौजसः। यथाऽसुरान्कालकेयान्देवो वज्रधरस्तथा
जटासुरो मद्रकानां च राजा कुन्तिः पुलिन्दश्च किरातराजः। तथाङ्गवाङ्गौ सहपुण्ड्रकेण पाण्ड्योड्रराजौ च सहान्ध्रकेण
अङ्गो वङ्गः सुमित्रश्च शैब्यश्चामित्रकर्शनः। किरातराजः सुमना यवनाधिपतिस्तथा
चाणूरो देवरातश्च भोजो भीमरथश्च यः। श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः
सुकर्मा चेकितानश्च पुरुश्चामित्रकर्शनः। केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः
सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः। अनूपराजो दुर्धर्पः क्रमजिच्च सुदर्शनः
शिशुपालः सहसुतः करूपाधिपतिस्तथा। वृष्णीनां चैव दुर्धर्पाः कुमारा देवरूपिणः
आहुको विपृथुश्चैव गदः सारण एव च। अक्रूरः कृतवर्मा च सत्यकश्च शिनेः सुतः
भीष्मकोऽथाकृतिश्चैव द्युमत्सेनश्च वीर्यवान्। केकयाश्च महेष्वासा यज्ञसेनश्च सोमकिः
केतुमान्वसुमांश्चैव कृतास्त्रश्च महाबलः। एते चान्ये च बहवः क्षत्रिया मुख्यसंमताः
उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम्। अर्जुनं ये व संश्रित्य राजपुत्रा महाबलाः
अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः। तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः
रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः। सुधर्मा चानिरुद्धश्च शैव्यश्च नरपुङ्गवः
एते चान्ये च बहवो राजानः पृथिवीपते। धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः
उपासते महात्मानमासीनं सप्तविंशतिः। चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा
गीतवादित्रकुशलाः साम्यतालविशारदाः। प्रमाणोऽथ लये स्थाने किन्नराः कृतनिश्रमाः
सञ्चोदितास्तुम्बुरुणा गन्धर्वसहितास्तदा। गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः
पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते। तस्यां सभायामासीनाः सुव्रताः सत्यसङ्गराः
दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते
सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम्। प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः
भगवत्याय्यमाहैतं यथावद्धर्मनिश्चयम्। यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया
राजभिर्यद्यथा कार्यं, पुरा वै तन्न संशयः। यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत्