तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च। सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः
अन्तरिक्षचरा घोरा महाकाया महाबलाः। रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः। वैदूर्यपत्रविततां मणिनालमयाम्बुजाम्
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम्। पुष्पितैः पङ्कजैश्चित्रां कूर्मैर्मत्स्यैश्च काञ्चनैः। चित्रस्फटिकसोपानां निष्पङ्कसलिलां शुभाम्
मन्दानिलसमुद्धूतां मुक्ताबिन्दुभिराचिताम्। महामणिशिलापट्टबद्धपर्यन्तवेदिकाम्
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः। दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत
तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः। आसन्नानाविधा लोलाः शीतच्छाया मनोरमाः
काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः। हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः
जलजानां च पद्मानां स्थलजानां च सर्वशः। मारुतो गन्धमादाय पाण्डवान्स्म निषेवते
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः। निष्ठितां धर्मराजाय मयो राजन्न्यवेदयत्
तां तु कृत्वा सभां श्रेष्ठां मयश्चार्जुनमब्रवीत्। भूतानां च महावीर्यो ध्वजाग्रे किङ्करो गणः
तव विष्फारघोषेण मेघवन्निनदिष्यति। अयं हि सूर्यसङ्काशो ज्वलनस्य रथो महान्।। 2
इमे च दिविजाः श्वेता वीर्यवन्तो हयोत्तमाः। मायामयः कृतो ह्येष ध्वजो वानरलक्षणः
असज्जमानो वृक्षेषु धूमकेतुरिवोच्छ्रितः। बहुवर्णं हि लक्ष्येत ध्वजं वानरलक्षणम्
ध्वजोत्कटं ह्यनवमं युद्धे द्रक्ष्यसि विष्ठितम्। एव वीरः सव्यसाचिन्ध्वजस्यान्ते भविष्यति
इत्युक्त्वाऽऽलिङ्ग्य वीभत्सुं विसृष्टः प्रययौ मयः
ततः प्रवेशनं तस्यां चक्रे राजा युधिष्ठिरः। अयुतं भोजयित्वा तु ब्राह्मणानां नराधिपः
साज्येन पायसेनैव मधुना मिश्रितेन च। भक्ष्यैर्मूलैः फलैश्चैव मांसैर्वाराहहारिणैः। कृसरेणाथ जीवन्त्या हविष्येण च सर्वशः
मांसप्रकारैर्विविधैः खाद्यैश्चापि तथा नृप। चोष्यैश्च विविधै राजन्पेयैश्च बहुविस्तरैः
अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि। तर्पयामास विप्रेन्द्रान्नानादिग्भ्यः समागतान्
ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः पुनः। पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत
वादित्रैर्विविधैर्दिव्यैर्गन्धैरुच्चावचैरपि। पूजयित्वा कुरुश्रेष्ठो देवतानि निवेश्य च
तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा। उपतस्थुर्महात्मानं धर्मपुत्रं युधिष्ठिरम्
तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः। तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि
सभायामृषयस्तस्यां पाण्डवैः सह आसते। आसाञ्चक्रुर्नरेन्द्राश्च नानादेशसमागताः
असितो देवलः सत्यः सर्पिर्माली महाशिराः। अर्वा वसुः सुमित्रश्च मैत्रेयः शुनको बलिः
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः। सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम्
तित्तिरिर्याज्ञवल्क्यश्च ससुतो रोमहर्षणः। अप्सुहोम्यश्च धौम्यश्च अणीमाण्डव्यकौशिकौ
दामोष्णीपस्त्रैबलीश्च पर्णादो घटजानुकः। मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकः
बलिवाकः सिनीवाकः सप्तपालः कृतश्रमः। जातूकर्णः शिखावांश्च आलम्बः पारिजातकः