हिरण्यशृङ्गः सुमहान्महामणिमयो गिरिः। रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः
द्रुष्टुं भागीरथीं गङ्गामुवास बहुलाः समाः। यत्रेष्टं सर्वभूतानामीश्वरेण महात्मना
आहृताः क्रतवो मुख्याः शतं भरतसत्तम। यत्र यूपा मणिमयाश्चैत्याश्चापि हिरण्मयाः
शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः। यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः
यत्र भूतपतिः सृष्ट्वा सर्वाँल्लोकान्सनातनः। अपस्यते तिग्मतेजाः स्थितो भूतैः सहस्रशः
नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः। उपासते यत्र परं सहस्रयुगपर्यये
यत्रेष्टं वासुदेवेन सत्त्रैर्वर्षगणान्बहून्। श्रद्दधानेन सततं धर्मसम्प्रतिपत्तये
सुवर्णमालिनो यूपाश्चैत्याश्चाप्यतिभास्वराः। ददौ यत्र सहस्राणि प्रयुतानि च केशवः
तत्र गत्वा स जग्राह गदां शङ्खं च भारत। `तस्माद्गिरेरुपादाय शिलाः सुरुचिरावहाः'। स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः
किङ्करैः सह रक्षोभिर्यदरक्षन्महद्धनम्। तदगृह्णान्मयस्तत्र गत्वा सर्वं महाऽसुरः
तदाहृत्य च तां चक्रे सोऽसुरोऽप्रतिमां सभाम्। विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम्
गदां च भीमसेनाय प्रवरां प्रददौ तदा। देवदत्तं चार्जुनाय शङ्खप्रवरमुत्तमम्
यस्य शङ्खस्य नादेन भूतानि प्रचकम्पिरे। `स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य च
सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम्। अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः
सर्वर्तुगुणसम्पन्नां दिव्यरूपामलङ्कृताम्। तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः। सभा च सा महाराज शातकुम्भमयद्रुमा
दशकिष्कुसहस्राणि समन्तादायताभवत्। यथा वह्नेर्यथार्कस्य सोमस्य च यथा सभा
भ्राजमाना तथाऽत्यर्थं दधार परमं वपुः। अभिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम्
प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा। नवमेघप्रतीकाशा दिवमाकृत्य विष्ठिता। आयता विपुला रम्या विपाप्मा विगतक्लमा
उत्तमद्रव्यसम्पन्ना रत्नप्राकारतोरणा। बहुचित्रा बहुधना सुकृता विश्वकर्मणा
न दाशार्ही सुधर्मा वा ब्रह्मणो वाथ तादृशी। सभा रूपेण सम्पन्ना यां चक्रे मतिमान्मयः
तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च। सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः
अन्तरिक्षचरा घोरा महाकाया महाबलाः। रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः। वैदूर्यपत्रविततां मणिनालमयाम्बुजाम्
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम्। पुष्पितैः पङ्कजैश्चित्रां कूर्मैर्मत्स्यैश्च काञ्चनैः। चित्रस्फटिकसोपानां निष्पङ्कसलिलां शुभाम्
मन्दानिलसमुद्धूतां मुक्ताबिन्दुभिराचिताम्। महामणिशिलापट्टबद्धपर्यन्तवेदिकाम्
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः। दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत
तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः। आसन्नानाविधा लोलाः शीतच्छाया मनोरमाः
काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः। हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः
जलजानां च पद्मानां स्थलजानां च सर्वशः। मारुतो गन्धमादाय पाण्डवान्स्म निषेवते
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः। निष्ठितां धर्मराजाय मयो राजन्न्यवेदयत्