विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः। नानाप्रहरणैर्भीमैर्दानवान्तमकम्पयत्
ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः। सुराणामसुराणां च सर्वघोरतरो महान्
प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः। तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु। असिशक्तिगदारुग्णा निपेतुर्धरणीतले
छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः। तप्तकाञ्चनमालीनि निपेतुरनिशं तदा
रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः। अद्रीणामिव कूटानि धातुरक्तानि शेरते
आहाकारः समभवत्तत्र तत्र सहस्रशः। अन्योन्यंछिन्दतां शस्त्रैरादित्ये लोहितायति
परिघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः। निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्
छिन्धिभिन्धि प्रधाव त्वं पातयाभिसरेति च। व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः
एवं सुतुमुले युद्धे वर्तमाने महाभये। नरनारायणौ देवौ समाजग्मतुराहवम्
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि। चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्
ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम्। विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं संयति भीमदर्शनम्
तदागतं ज्वलितहुताशनप्रभं भयंकरं करिकरबाहुरच्युतः। मुमोच वै प्रबलवदुग्रवेगवा- न्महाप्रभं परनगरावदारणम्
तदन्तकज्वलनसमानवर्चसं पुनःपुनर्न्यपतत वेगवत्तदा। विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे
दहत्क्वचिज्ज्वलन इवावलेलिह- त्प्रसह्य तानसुरगणान्न्यकृन्तत। प्रवेरितं वियति मुहुः क्षितौ तथा पपौ रणे रुधिरमथो पिशाचवत्
तथाऽसुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमार्दयंस्तदा। महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्यह
अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः। महाद्रयः परिगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः
ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः। परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसंप्रवर्तिते
नरस्ततो वरकनकाग्रभूषणै- र्महेषुभिर्गगनपथं समावृणोत्। विदारयन्गिरिशिखराणि पत्रिभि- र्महाभयेऽसुरगणविग्रहे तदा
ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः। वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशाम्य ते
ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः। विनाद्य खं दिवमपि चैव सर्वश- स्ततो गताः सलिलधरा यथागतम्
ततोऽमृतं सुनिहितमेव चक्रिरे सुराः पुरां मुदमभिगम्य पुष्कलाम्। ददो च तं निधिममृतस्य रक्षितुं किरीटिने बलभिदथामरैः सह
एतत्ते कथितं सर्वममृतं मथितं यथा। यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः
तं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत्। उच्चैःश्रवा हि किंवर्णो भद्रे प्रब्रूहि मा चिरम्
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे। ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे
कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते। एहि सार्धं मया दीव्य दासीभावाय भामिनि
एवं ते समयं कृत्वा दासीभावाय वै मिथः। जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह
ततः पुत्रसहस्रं तु कद्रूर्जिह्यं चिकीर्षती। आज्ञापयामास तदा वाला भूत्वाऽञ्जनप्रभाः
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा। नावपद्यन्त ये वाक्यं ताञ्शशाप भुजंगमान्
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति। जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः