क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः। अकामा एव पार्थास्ते गोविन्दगमानसाः
निवृत्योपययुस्तूर्णं स्वं पुरं पुरुषर्षभाः। स्यन्दनेनाथ कृष्णोऽपि त्वरितं द्वारकामगात्
सात्वतेन च वीरेण पृष्ठतो यायिना तदा। दारुकेण च सूतेन सहितो देवकीसुतः। स गतो द्वारकां विष्णुर्गरुत्मानिव वेगवान्
निवृत्य धर्मराजस्तु सह भ्रातृभिरच्युतः। सुहृत्परिवृतो राजा प्रविवेश पुरोत्तमम्
विसृज्य सुहृदः सर्वान्भ्रातॄन्पुत्रांश्च धर्मराट्। मुमोद पुरुषव्याघ्रो द्रौपद्या सहितो नृप
केशवोपि मुदा युक्तः प्रविवेश पुरोत्तमम्। पूज्यमानो यदुश्रेष्ठैरुग्रसेनमुखैस्तथा
आहुकं पितरं वृद्धं मातरं च यशस्विनीम्। अभिवाद्य बलं चैव स्थितः कमललोचनः
प्रद्युम्नसाम्बनिशठांश्चरुदेष्णं गदं तथा। अनिरुद्धं च भानुं च परिष्वज्य जनार्दनः
स वृद्धैरभ्यनुज्ञातो रुक्मिण्या भवनं ययौ। `स तत्र भवने दिव्ये प्रमुमोद सुखी सुखम्
एतस्मिन्नन्तरे राजन्मयो दैत्याधिपस्तदा। विधिवत्कल्पयामास सभां धर्मसुताय वै
अथाब्रवीन्मयः पार्थमर्युनं जयतां वरम्। आपृच्छे त्वां गमिष्यामि पुनरेष्यामि चाप्यहम्
विश्रुतां त्रिषु लोकेषु पार्थ दिव्यां सभां तव। प्राणिनां विस्मयकरीं तव प्रियविवर्धिनीम्। पाण्डवानां च सर्वेषां करिष्यामि धनञ्जय
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति। यियक्षमाणेषु पुरा दानवेषु मया कृतम्
चित्रं मणिमयं भाण्डं रम्यं बिन्दुसारः प्रति। सभायां सत्यसन्धस्य यदासीद्वृषपर्वणः
आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत। ततः सभां करिष्यामि पाण्डवस्य यशस्विनीम्
मनः प्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम्। अस्ति बिन्दुसारस्युग्रा गदा च कुरुनन्दन
निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून्। सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा
सा वै शतसहस्रस्य सम्मिता शत्रुघातिनी। अनुरूपा च भीमस्य गाण्डीवं भवतो यथा
वारुणश्च महाशङ्खो देवदत्तः सुघोषवान्। सर्वमेतत्प्रदास्यामि भवते नात्र संशयः
इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीं दिशं गतः। अथोत्तरेण कैलासान्मैनाकं पर्वतं प्रति
हिरण्यशृङ्गः सुमहान्महामणिमयो गिरिः। रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः
द्रुष्टुं भागीरथीं गङ्गामुवास बहुलाः समाः। यत्रेष्टं सर्वभूतानामीश्वरेण महात्मना
आहृताः क्रतवो मुख्याः शतं भरतसत्तम। यत्र यूपा मणिमयाश्चैत्याश्चापि हिरण्मयाः
शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः। यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः
यत्र भूतपतिः सृष्ट्वा सर्वाँल्लोकान्सनातनः। अपस्यते तिग्मतेजाः स्थितो भूतैः सहस्रशः
नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः। उपासते यत्र परं सहस्रयुगपर्यये
यत्रेष्टं वासुदेवेन सत्त्रैर्वर्षगणान्बहून्। श्रद्दधानेन सततं धर्मसम्प्रतिपत्तये
सुवर्णमालिनो यूपाश्चैत्याश्चाप्यतिभास्वराः। ददौ यत्र सहस्राणि प्रयुतानि च केशवः
तत्र गत्वा स जग्राह गदां शङ्खं च भारत। `तस्माद्गिरेरुपादाय शिलाः सुरुचिरावहाः'। स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः
किङ्करैः सह रक्षोभिर्यदरक्षन्महद्धनम्। तदगृह्णान्मयस्तत्र गत्वा सर्वं महाऽसुरः