पृष्ठतोऽनुययुः कृष्णमृत्विक्पौरजनैर्वृता। स तथा भ्रातृभिः सर्वैः केशवः परवीरहा
अन्वीयमानः शुशुभे शिष्यैरिव गुरुः प्रियैः। `अभिमन्युं च सौभद्रं वृद्धैः परिवृतस्तथा
रथमारोप्य निर्यातो धौम्यो ब्राह्मणपुङ्गवः। इन्द्रप्रस्थमतिक्रम्य क्रोशमात्रं महाद्युतिः'। पार्थमामन्त्र्य गोविन्दः परिष्वज्य सुपीडितम्
युधिष्ठरं पूजयित्वा भीमसेनं यमौ तथा। परिष्वक्तो भृशं तैस्तु यमाभ्यामभिवादितः
योजनार्धमथो गत्वा कृष्णः परपुरञ्जयः। युधिष्ठिरं समामन्त्र्य निवर्तस्वेति भारत
ततोऽभिवाद्य गोविन्दः पादौ जग्राह धर्मवित्। उत्थाप्य धर्मराजस्तु मूर्ध्न्युपाघ्राय केशवम्
पाण्डवो यादवश्रेष्ठं कृष्णं कमललोचनम्। गम्यतामित्यनुज्ञाप्य धर्मराजो युधिष्ठिरः
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः। निवर्त्य च तथा कृच्छ्रात्पाण्डवान्सपदानुगान्
स्वां पुरीं प्रययौ हृष्टो यथा शक्रोऽमरावतीम्।। लोचनैरनुजग्मुस्ते तमादृष्टिपथात्तदा
मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात्। अतृप्तमनसामेव तेषां केशवदर्शने
क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः। अकामा एव पार्थास्ते गोविन्दगमानसाः
निवृत्योपययुस्तूर्णं स्वं पुरं पुरुषर्षभाः। स्यन्दनेनाथ कृष्णोऽपि त्वरितं द्वारकामगात्
सात्वतेन च वीरेण पृष्ठतो यायिना तदा। दारुकेण च सूतेन सहितो देवकीसुतः। स गतो द्वारकां विष्णुर्गरुत्मानिव वेगवान्
निवृत्य धर्मराजस्तु सह भ्रातृभिरच्युतः। सुहृत्परिवृतो राजा प्रविवेश पुरोत्तमम्
विसृज्य सुहृदः सर्वान्भ्रातॄन्पुत्रांश्च धर्मराट्। मुमोद पुरुषव्याघ्रो द्रौपद्या सहितो नृप
केशवोपि मुदा युक्तः प्रविवेश पुरोत्तमम्। पूज्यमानो यदुश्रेष्ठैरुग्रसेनमुखैस्तथा
आहुकं पितरं वृद्धं मातरं च यशस्विनीम्। अभिवाद्य बलं चैव स्थितः कमललोचनः
प्रद्युम्नसाम्बनिशठांश्चरुदेष्णं गदं तथा। अनिरुद्धं च भानुं च परिष्वज्य जनार्दनः
स वृद्धैरभ्यनुज्ञातो रुक्मिण्या भवनं ययौ। `स तत्र भवने दिव्ये प्रमुमोद सुखी सुखम्
एतस्मिन्नन्तरे राजन्मयो दैत्याधिपस्तदा। विधिवत्कल्पयामास सभां धर्मसुताय वै
अथाब्रवीन्मयः पार्थमर्युनं जयतां वरम्। आपृच्छे त्वां गमिष्यामि पुनरेष्यामि चाप्यहम्
विश्रुतां त्रिषु लोकेषु पार्थ दिव्यां सभां तव। प्राणिनां विस्मयकरीं तव प्रियविवर्धिनीम्। पाण्डवानां च सर्वेषां करिष्यामि धनञ्जय
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति। यियक्षमाणेषु पुरा दानवेषु मया कृतम्
चित्रं मणिमयं भाण्डं रम्यं बिन्दुसारः प्रति। सभायां सत्यसन्धस्य यदासीद्वृषपर्वणः
आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत। ततः सभां करिष्यामि पाण्डवस्य यशस्विनीम्
मनः प्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम्। अस्ति बिन्दुसारस्युग्रा गदा च कुरुनन्दन
निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून्। सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा
सा वै शतसहस्रस्य सम्मिता शत्रुघातिनी। अनुरूपा च भीमस्य गाण्डीवं भवतो यथा
वारुणश्च महाशङ्खो देवदत्तः सुघोषवान्। सर्वमेतत्प्रदास्यामि भवते नात्र संशयः
इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीं दिशं गतः। अथोत्तरेण कैलासान्मैनाकं पर्वतं प्रति