उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः। पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः
गमनाय मतिं चक्रे पितुर्दर्शनलालसः। धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः
ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः। स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः
ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः। तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः
अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तरम्। उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम्
तया स्वजनगामीनि श्रावितो वचनानि सः। सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः
तामनुज्ञाय वार्ष्णेयः प्रतिनन्द्य च भामिनीम्। ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः
ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः। द्रौपदीं सान्त्वयित्वा च सुभद्रां परिदाय च
भ्रातृनभ्यगमद्विद्वान्पार्थेन सहितो बली। भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः
यात्राकालस्य योग्यानि कर्माणि गरुडध्वजः। कर्तुकामः शुचिर्भूत्वा स्नातवान्समलङ्कृतः
अर्चयामास देवांश्च द्विजांश्च यदुपुङ्गवः। माल्यजाप्यनमस्कारैर्गन्धैरुच्चावचैरपि
स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुपां वरः। उपेत्य स यदुश्रेष्ठो बाह्यकक्षाद्विनिर्गतः
स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः। वसु प्रदाय च ततः प्रदक्षिणमथाकरोत्
काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम्। गदाचक्रासिशार्ङ्गाद्यैरायुधैरावृतं शुभम्
सुतिथावथ नक्षत्रे मुहूर्ते च गुणान्विते। प्रययौ पुण्डरीकाक्षः शैब्यसुग्रीववाहनः
अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः। अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम्
अभीषून्सम्प्रजग्राह स्वयं कुरुपतिस्तदा। उपारुह्यार्जुनश्चाऽपि चामरव्यजनं सितम्
रुक्मदण्डं बृहद्बाहुर्विदुधाव प्रदक्षिणम्। तथैव भीमसेनोऽपि रथमारुह्य वीर्यवान्
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्। वैडूर्यमणिदण्डं च चामीकरविभूषितम्
दधार तरसा भीमः मुच्छत्रं शार्ङ्गधन्वने। भीमसेनार्जुनौ चापि यमावरिनिषूदनौ
पृष्ठतोऽनुययुः कृष्णमृत्विक्पौरजनैर्वृता। स तथा भ्रातृभिः सर्वैः केशवः परवीरहा
अन्वीयमानः शुशुभे शिष्यैरिव गुरुः प्रियैः। `अभिमन्युं च सौभद्रं वृद्धैः परिवृतस्तथा
रथमारोप्य निर्यातो धौम्यो ब्राह्मणपुङ्गवः। इन्द्रप्रस्थमतिक्रम्य क्रोशमात्रं महाद्युतिः'। पार्थमामन्त्र्य गोविन्दः परिष्वज्य सुपीडितम्
युधिष्ठरं पूजयित्वा भीमसेनं यमौ तथा। परिष्वक्तो भृशं तैस्तु यमाभ्यामभिवादितः
योजनार्धमथो गत्वा कृष्णः परपुरञ्जयः। युधिष्ठिरं समामन्त्र्य निवर्तस्वेति भारत
ततोऽभिवाद्य गोविन्दः पादौ जग्राह धर्मवित्। उत्थाप्य धर्मराजस्तु मूर्ध्न्युपाघ्राय केशवम्
पाण्डवो यादवश्रेष्ठं कृष्णं कमललोचनम्। गम्यतामित्यनुज्ञाप्य धर्मराजो युधिष्ठिरः
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः। निवर्त्य च तथा कृच्छ्रात्पाण्डवान्सपदानुगान्
स्वां पुरीं प्रययौ हृष्टो यथा शक्रोऽमरावतीम्।। लोचनैरनुजग्मुस्ते तमादृष्टिपथात्तदा
मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात्। अतृप्तमनसामेव तेषां केशवदर्शने