प्रोपकारादर्थं हि नादास्यामीति मे व्रतम्'। युक्तमेतत्त्वयि विभो यदात्थ पुरुषर्षभ
प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि तेऽर्जुन। अहं हि विश्वकर्मा वै दानवानां महाकविः
सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव। `दानवानां पुरा पार्थ प्रासादा हि मया कृताः
रम्याणि सुखगर्भाणि भोगाढ्यानि सहस्रशः। उद्यानानि च रम्याणि सरांसि विविधानि च
विचित्राणि च वस्त्राणि कामगानि रथानि च। नगराणि विशालानि साट्टप्राकारवन्ति च
वाहनानि च मुख्यानि विचित्राणि सहस्रशः। बिलानि रमणीयानि सुखयुक्तानि वै भृशम्। एते कृता मया तस्मादिच्छामि फल्गुन
प्राणकृच्छ्राद्विनिर्मुक्तमात्मानं मन्यसे मया। एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया
न चापि तव सङ्कल्पं मोघमिच्छामि दानव। कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि
चोदितो वासुदेवस्तु मयं प्रति नरर्षभ। मुहूर्तमिव सन्दध्यौ किमयं चोद्यतामिति
ततो विचिन्त्य मनसा लोकनाथः प्रजापितः। चोदयामास तं कृष्णः सभा वै क्रियतामिति
यदि त्वं कर्तुकामोऽसि प्रियं शिल्पवतां वर। धर्मराजस्य दयितां यादृशीमिह मन्यसे
यां क्रियां नानुकुर्युस्ते मानवाः प्रेक्ष्य विष्ठिताः। मनुष्यलोके सकले तादृशीं कुरु वै सभाम्
यत्र द्विव्यानभिप्रायान्पश्येम विहितांस्त्वया। आसुरान्मानुपांश्चैव तादृशीं कुरु वै सभाम्
प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा। विमानप्रतिमां चक्रे पाण्डवस्य शुभां सभाम्
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे। सर्वमेतत्समावेद्य दर्शयामासतुर्मयम्
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा। स तु तां प्रतिजग्राह मयः सत्कृत्य भारत
स पूर्वदेवचरितं तदा तत्र विशाम्पते। कथयामास दैतेयः पाण्डुपुत्रेषु भारत
स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य तु। सभां प्रचकमे कर्तुं पाण्डवानां महात्मनाम्
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः। पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः
सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम्। दशकिष्कुसहस्रां तां मापयामास सर्वतः
उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः। पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः
गमनाय मतिं चक्रे पितुर्दर्शनलालसः। धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः
ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः। स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः
ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः। तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः
अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तरम्। उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम्
तया स्वजनगामीनि श्रावितो वचनानि सः। सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः
तामनुज्ञाय वार्ष्णेयः प्रतिनन्द्य च भामिनीम्। ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः
ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः। द्रौपदीं सान्त्वयित्वा च सुभद्रां परिदाय च
भ्रातृनभ्यगमद्विद्वान्पार्थेन सहितो बली। भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः
यात्राकालस्य योग्यानि कर्माणि गरुडध्वजः। कर्तुकामः शुचिर्भूत्वा स्नातवान्समलङ्कृतः