वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम्। ददौ सुरपतिश्चैव वरं कृष्णाय धीमते
एवं दत्त्वा वरं ताभ्यां सह देवैर्मरुत्पतिः। हुताशनमनुज्ञाप्य जगामत्रिदिवं प्रभुः
पावकश्च तदा दावं दग्ध्वसमृगपक्षिणम्। अहोभिरेकविंशद्भिर्विरराग्सुतर्पितः
जग्ध्वा मांसानि पीत्वा चदांसि रुधिराणि च। युक्तः परमया प्रीत्या तावुत्वाच्युतार्जुनौ
युवाभ्यां पुरुषाग्र्याभ्यां ततोऽस्मि यथासुखम्। अनुजानामि वां वीरौ चरतंत्र वाञ्छितम्
गाण्डिवं च धनुर्दिव्यमक्षौ च महेषुधी। कपिध्वजो रथश्चायं तव द महामते
अनेन धनुषा चैव रथेनाने भारत। विजेष्यसि रणे शत्रून्सदेवामानुषान्
एवं तौ समनुज्ञातौ पाववेमहात्मना। अर्जुनो वासुदेवश्च दानवश्चयस्तथा
परिक्रम्य ततः सर्वे त्रयोऽभरतर्षभ। रमणीये नदीकूले सहितामुपाविशंन्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं चैव (व्यासं)ततो जयमुदीरयेत्
अर्जुनो जयतां श्रेष्ठो मोचयित्वा मयं तदा। किं चकार महातेजास्तन्मे ब्रूहि द्विजोत्तम
शृणु राजन्नवहितश्चरितं पूर्वकस्य ते। मोक्षयित्वा मयं तत्र पार्थः शस्त्रभृतां वरः
गाण्डिवं कार्मुकश्रेष्ठं तूणी चाक्षयसायकौ। दिव्यान्यस्त्राणि राजेन्द्र दुर्लभानि नृपैर्भुवि
रथध्वजपताकाश्च श्वेताश्वांश्च स वीर्यवान्। एतानि पावकात्प्राप्य मुदा परमया युतः। तस्थौ पार्थो महावीर्यस्तदा सह मयेन सः
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ। `पाण्डवेन परित्रातस्तत्कृतं प्रत्यनुस्मरन्
प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः। अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः
त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते। `अहं हि विश्वकर्मा वै असुराणां परन्तप
तस्मात्ते विस्मयं किञ्चित्कुर्यामन्यैः सुदुष्करम्
एवमुक्तो महावीर्यः पार्थो मायाविदं मयम्। ध्यात्वा मुहूर्तं कौन्तेयः प्रहसन्वाक्यमब्रवीत्
कृतमेव त्वया सर्वं स्वस्ति गच्छ महाऽसुर। प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते
प्रोपकारादर्थं हि नादास्यामीति मे व्रतम्'। युक्तमेतत्त्वयि विभो यदात्थ पुरुषर्षभ
प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि तेऽर्जुन। अहं हि विश्वकर्मा वै दानवानां महाकविः
सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव। `दानवानां पुरा पार्थ प्रासादा हि मया कृताः
रम्याणि सुखगर्भाणि भोगाढ्यानि सहस्रशः। उद्यानानि च रम्याणि सरांसि विविधानि च
विचित्राणि च वस्त्राणि कामगानि रथानि च। नगराणि विशालानि साट्टप्राकारवन्ति च
वाहनानि च मुख्यानि विचित्राणि सहस्रशः। बिलानि रमणीयानि सुखयुक्तानि वै भृशम्। एते कृता मया तस्मादिच्छामि फल्गुन
प्राणकृच्छ्राद्विनिर्मुक्तमात्मानं मन्यसे मया। एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया
न चापि तव सङ्कल्पं मोघमिच्छामि दानव। कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि
चोदितो वासुदेवस्तु मयं प्रति नरर्षभ। मुहूर्तमिव सन्दध्यौ किमयं चोद्यतामिति
ततो विचिन्त्य मनसा लोकनाथः प्रजापितः। चोदयामास तं कृष्णः सभा वै क्रियतामिति