अश्रूणि मुमुचे तेषां दर्शनात्सा पुनःपुनः। `न श्रद्धेयं ततस्तेषांर्शनं वै पुनःपुनः
इति मत्वाऽब्रवीद्वाकजरिता पुत्रगृद्धिनी।' एकाकशश्च पुत्रांस्तन्त्र्शमानान्वपद्यत
जरिता तु परिष्वज्युत्रस्नेहाच्चुचुम्ब ह
ततोऽभ्यगच्छत्सहसमन्दपालोऽपि भारत। अथ ते सर्व एवैनं भ्यनन्दंस्तदा सुताः
गुरुत्वान्मन्दपालस्तपसश्च विशेषतः। अभिवादामहे सर्वे तपक्षाः प्रसादतः
एवमुक्तवतां तेषां तनन्द्य महातपाः। परिष्वज्य ततो मू उपाघ्राय च बलकान्। पुत्रान्स्वयं समाहूयतः प्रोवाच गौतमः
लालप्यमानमेकैकंरितां च पुनःपुनः। न चैवोचुस्तदा किंतमृषिं साध्वसाधु वा
ज्येष्ठः सुतस्ते कत कतमस्तस्य चानुजः। मध्यमः कतमश्चैव यान्कतमश्च ते
एवं ब्रुवन्तं दुःखाकं मा न प्रतिभाषसे। कृतवानस्मि हव्यानैव शान्तिमितो लभे। `एवमुक्त्वा तु तां मन्दपालस्तदाऽस्पृशत्
किं नु ज्येष्ठेन ते किमनन्तरजेन ते। किं वा मध्यमजातेन किं कनिष्ठेन वा पुनः
यां त्वं मां सर्वतो हीनामुत्सृज्यासि गतः पुरा। तामेव लपितां गच्छ तरुणीं चारुहासिनीम्
न स्त्रीणां विद्यते किंचिदमुत्र पुरुषान्तरात्। सापत्नकमृते लोके नान्यदर्थविनाशनम्
वैराग्निदीपनं चैव भृशुद्वेगकारि च। सुव्रता चापि कल्याणी सर्वभूतेषु विश्रुता
अरुन्धती महात्मानं वसिष्ठं पर्यशङ्कत। विशुद्धभावमत्यन्तं सदा प्रियहिते रतम्
सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम्। अपध्यानेन सा तेन धूमारुणसमप्रभा। लक्ष्याऽलक्ष्या नाभिरूपा निमित्तमिव पश्यति
अपत्यहेतोः संप्राप्तं तथा त्वमपि मामिह। इष्टमेवं गते हि त्वं सा तथैवाद्य वर्तते
न हि भार्येति विश्वासः कार्यः पुंसा कथंचन। न हि कार्यमनुध्याति नारी पुत्रवती सती
ततस्ते सर्व एवैनं पुत्राः सम्यगुपासते। स च तानात्मजान्सर्वानाश्वासयितुमुद्यतः
युष्माकमपवर्गार्थं ती ज्वलनो मया। अग्निना च तथेत्येतिज्ञातं महात्मना
अग्नेर्वचनमाज्ञाय धर्मज्ञतां च वः। भवतां च परं वीर्यं नाहमिहागतः
न सन्तापो हि वर्त्थः पुत्रका हृदि मां प्रति। ऋषीन्वेद हुताशो ब्रह्म तद्विदितं च वः
एवमाश्वासितान्पुत्रान्भार्यामादाय स द्विजः। मन्दपालस्ततो देशादन्यं देशं जगाम ह
भगवानापि तिग्मांशुः समिद्धः खाण्डवं ततः। ददाह सह कृष्णाभ्यां जनयञ्जगतो हितम्
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः। जगाम दर्शयामास चार्जुनम्
ततोऽञन्तरिक्षाद्भगवानवतीर्य पुरन्दरः। मरुद्गणैर्वृतः पार्थं केशवं चेदमब्रवीत्
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम्। वरं वृणीतं तुष्टोऽस्मि दुर्लभं पुरुषेष्विह
पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः। प्रदातुं तच्च शक्रस्तु कालं चक्रे महाद्युतिः
यदा प्रसन्नो भगवान्महादेवो भविष्यति। तदातुभ्यं प्रदास्यामि पाण्डवास्त्राणि सर्वशः
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन। तपसा महता चापि दास्यामि भवतोऽप्यहम्
आग्नेयानि च सर्वाणि वायव्यानि च सर्वशः। मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय