त्वमन्नं प्राणिभिर्भुक्तमन्तर्भूतो जगत्पते। नित्यप्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम्
सूर्यो भूत्वा रश्मिभिर्जातवेदो भूमेरम्भो भूमिजातान्रसांश्च। विश्वानादाय पुनरुत्सृज्य काले दृष्ट्वा वृष्ट्या भावयसीह शुक्र
त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः। जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः
इदं वै सद्म तिग्मांशो वरुणस्य परायणम्। शिवस्त्राता भवास्माकं माऽस्मानद्य विनाशय
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन। परेण प्रेहि मुञ्चास्मान्सागरस्य गृहानिव
एवमुक्तो जातवेदा द्रोणेन ब्रह्मवादिना। द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया
ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं ईप्सितं ते करिष्यामि न च ते
मन्दपालेन वै यूयं मम पूर्वं निवेदिताः। वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह
तस्य तद्वचनं द्रोण त्वया यच्चेह भाषितम्। उभयं मे गरीयस्तु ब्रूहि किं करवाणि ते। भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मंस्तोत्रेण सत्तम
इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः। एतान्कुरुष्व दग्धांस्त्वं हुताशन सबान्धवान्
तथा तत्कृतवानग्निरभ्यनुज्ञाय शार्ङ्गकान्। ददाह खाण्डवं दावं समिद्धो जनमेजय
मन्दपालोऽञपि कौरव्यं चिन्तयामास पुत्रकान्। उक्त्वाऽपि च स तिग्मांशुं नैव शर्माधिगच्छति
स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत्। कथं नु शक्ताः शरणे लपिते मम पुत्रकाः
वर्धमाने हुतवहे वाते चाशु प्रवायति। असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः
कथं त्वशक्ता त्राणाय माता तेषां तपस्विनी। भविष्यति हि शोकार्ता पुत्रत्राणमपश्यती
कथमुड्डीयनेऽशक्तान्पतने च ममात्मजान्। सन्तप्यमाना बहुधा वाशमाना प्रधावती
जरितारिः कथं पुत्रः सारिसृक्कः कथं च मे। स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी
लालप्यमानं तमृषइं मन्दपालं तथा वने। लपिता प्रत्युवाचेदं सासूयमिव भारत
न ते पुत्रेष्ववेक्षाऽस्ति यानृषीनुक्तवानसि। तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम्
त्वयाऽग्नौ ते परीताश्च स्वयं हि मम सन्निधौ। श्रुतं तथा चेति ज्वलनेन महात्मना
पलो न तां वाचमुक्त्वा मिथ्या करिष्यति। न्धुकृत्ये न तेन ते स्वस्थ मानसम्
तामेव तु ममामित्रां चिन्तयन्परितप्यसे। ध्रुवं मयि न ते स्नेहो यथा तपयं पुराऽभवत्
नहि पक्षवता न्याय्यं निः हेन सुहृज्जने। पीड्यमान उपद्रष्टुं शक्तेना मा कथंचन
गच्छ त्वं जरितामेव यदर्थं परितप्यसे। चरिष्याम्यहमप्येका यथा पुरुषाश्रिता
नाहमेवं चरे लोके यथा त्वमभिमन्यसे। अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम
भूतं हित्वा च भाव्यर्थे योऽवलम्बेत्स मन्दधीः। अवमन्येत तं लोको यथेच्छसि तथा कुरु
एष हि प्रज्वलन्नग्निर्लेलिहानी महीरुहान्। आविग्ने हृदि सन्तापं जनयत्यशिवं मम
भर्तुर्हि वाक्यं सा श्रुत्वा लपिता दुःखिताऽभवत्। सान्त्वयामास च पुनः पति पतिपरायणा
तस्माद्देशादतिक्रान्ते ज्वलने जरिता पुनः। जगाम पुत्रकानेन जरिता पुत्रगृद्धिनी
सा तान्कुशलिनः सर्वान्विमुक्ताञ्जातवेदसः। रोरूयमाणान्ददृशे वने पुत्रान्निरामयान्