संशयो वह्निरागच्छेद्दृष्टं वायोर्निवर्तनम्। मृत्युर्नो बिलवासिभ्यो बिले स्यान्नात्र संशयः
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते। चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान्
अहं वेगेन तं यान्तमद्राक्षं पततां वरम्। बिलादाखुं समादाय श्येनं पुत्रा महाबलम्
तं पतन्तं महावेगा त्वरिता पृष्ठतोऽन्वगाम्। आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात्
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि। भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः
स यदा भक्षितस्तेन श्येनेनाखुः पतत्रिणा। तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम्
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम्। श्येनेन मम पश्यन्त्या हृत आखुर्महात्मना
न विद्महे हृतं मातः श्येनैनाखुं कथंचन। अविज्ञाय न शक्यामः प्रवेष्टं विवरं भुवः
अहं तमभिजानामि हृतं श्येनेन मूषिकम्। नास्ति वोऽत्र भयं पुत्राः क्रियतां वचनं मम
न त्वं मिथ्योपचारेण मोक्षयेथा भयाद्धि नः। समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत्
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम्। पीड्यमाना बिभर्ष्यस्मान्का सती के वयं तव
तरुणी दर्शीयाऽसि समर्था भर्तुरेषणे। अनुगच्छ पतिं मातुः पुत्रानाप्स्यसि शोमनान्
वयमस्निं समाविश्य लोकानाप्स्याम शोभनान्। अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे। जगाम त्वरिता देशं क्षेममग्नेरनामयम्
ततस्तीक्ष्णार्चिरभ्यागात्त्वरितो हव्यवाहनः। यत्र शार्ङ्गा वभूवुस्ते मन्दपालस्य पुत्रकाः
ततस्तं ज्वलितं दृष्ट्वा ज्वलनं ते विहङ्गमाः। `व्यथिताः करुणा वाचः श्रावयामासुरन्तिकात्।' जरितारिस्ततो वाक्यं श्रावयामास पावकम्
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पुरुषः। स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित्
यस्तु कृच्छ्रमनुप्राप्तं विचेता नावबुध्यते। सकृच्छ्रकाले व्यथितो न श्रेयो विन्दते महत्
धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः। प्राज्ञः शूरो बहूनां हि भवत्येको न संशयः
ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः। ज्येष्ठश्चेन्न प्रजानाति नीयान्किं करिष्यति
हिरण्यरेतास्त्वरितो जलन्नायाति नः क्षयम्। सप्तजिह्वाननः क्रूरो लिहानो विसर्पति
एवं संभाष्य तेऽन्योन्यं मन्दपालस्य पुत्रकाः। तुष्टुवुः प्रयता भूत्वा यथाऽग्निं शृणु पार्थिव
आत्माऽसि वायोर्ज्वलन शरीरमसि वीरुधाम्। योनिरापश्च ते शुक्रं योनिस्त्वमसि चाम्भसः
ऊर्ध्वं चाधश्च सर्पन्ति पृष्ठतः पार्श्वतस्तथा। अर्चिषस्ते महावीर्य रश्यमः सवितुर्यथा
माता प्रणष्टा पितरं न विद्मः पक्षा जाता नै नो धूमकेतो। न नस्त्राता विद्यते वै त्वदन्य- स्तस्मादस्मांस्त्राहि बालांस्त्वमग्ने
यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः। तेन नः परिपाहि त्वमार्तान्नः शरणैषिणः
त्वमेवैकस्तपसे जप्तवेदो नान्यस्तप्ता विद्यते गोषु देव। ऋषीनस्मान्बालकान्पालयस्व परेणास्मान्प्रेहि वै हव्यवाह
सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत्। त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः। मनीषिणस्त्वां जानन्ति बहुधा चैकधापि च
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह काले प्राप्ते पचसि पुनः समिद्धः। त्वं सर्वस्य भुवनस्य प्रसूति- स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा