इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः। तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम्
ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः। एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः
तत एष्याम्यतीतेऽग्नौ विहन्तुं पांसुशंचयम्। रोचतामेष वो वादो मोक्षार्थं च हुताशनात्
अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत्। पश्यमाना भयमिदं प्रवेष्टुं नात्र शक्नुमः
कथमग्निर्न नो धक्ष्येत्कथमाखुर्न नाशयेत्। कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः
बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम्। अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम्
गर्हितं मरणं नः स्यादाखुना भक्षिते बिले। शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात्
अग्निदाहे तु नियतं ब्रह्मलोके ध्रुवा गतिः
अस्माद्बिलान्निष्पतितमाखुं श्येनो जहार तम्। क्षुद्रं पद्भ्यां गृहीत्वा च यातो नात्र भयं हि वः
न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन। अन्येऽपि भितारोऽत्र तेभ्योऽपि भमेव नः
संशयो वह्निरागच्छेद्दृष्टं वायोर्निवर्तनम्। मृत्युर्नो बिलवासिभ्यो बिले स्यान्नात्र संशयः
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते। चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान्
अहं वेगेन तं यान्तमद्राक्षं पततां वरम्। बिलादाखुं समादाय श्येनं पुत्रा महाबलम्
तं पतन्तं महावेगा त्वरिता पृष्ठतोऽन्वगाम्। आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात्
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि। भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः
स यदा भक्षितस्तेन श्येनेनाखुः पतत्रिणा। तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम्
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम्। श्येनेन मम पश्यन्त्या हृत आखुर्महात्मना
न विद्महे हृतं मातः श्येनैनाखुं कथंचन। अविज्ञाय न शक्यामः प्रवेष्टं विवरं भुवः
अहं तमभिजानामि हृतं श्येनेन मूषिकम्। नास्ति वोऽत्र भयं पुत्राः क्रियतां वचनं मम
न त्वं मिथ्योपचारेण मोक्षयेथा भयाद्धि नः। समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत्
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम्। पीड्यमाना बिभर्ष्यस्मान्का सती के वयं तव
तरुणी दर्शीयाऽसि समर्था भर्तुरेषणे। अनुगच्छ पतिं मातुः पुत्रानाप्स्यसि शोमनान्
वयमस्निं समाविश्य लोकानाप्स्याम शोभनान्। अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे। जगाम त्वरिता देशं क्षेममग्नेरनामयम्
ततस्तीक्ष्णार्चिरभ्यागात्त्वरितो हव्यवाहनः। यत्र शार्ङ्गा वभूवुस्ते मन्दपालस्य पुत्रकाः
ततस्तं ज्वलितं दृष्ट्वा ज्वलनं ते विहङ्गमाः। `व्यथिताः करुणा वाचः श्रावयामासुरन्तिकात्।' जरितारिस्ततो वाक्यं श्रावयामास पावकम्
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पुरुषः। स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित्
यस्तु कृच्छ्रमनुप्राप्तं विचेता नावबुध्यते। सकृच्छ्रकाले व्यथितो न श्रेयो विन्दते महत्
धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः। प्राज्ञः शूरो बहूनां हि भवत्येको न संशयः
ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः। ज्येष्ठश्चेन्न प्रजानाति नीयान्किं करिष्यति