कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसंभवः। मरीचिविकचः श्रीमान्नारायणउरोगतः
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः। `पारिजातश्च तत्रैव सुरभिश्च महामुने। जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ
ततो जज्ञे महाकायश्चतुर्दन्तो महागजः। कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः।' यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत। श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः। अमृतार्थे महान्नादो ममेदमिति जल्पताम्
ततो नारायणो मायां मोहिनीं समुपाश्रितः। स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः। स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः
सा तु नारायणी माया धारयन्ती कमण्डलुम्। आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः
देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः
अथावरणमुख्यानि नानाप्रहरणानि च। प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्। जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः
ततो देवगणाः सर्वे पपुस्तदमृतं तदा। विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति
पाययत्यमृतं देवान्हरौ बाहुबलान्नरः। निरोधयति चापेन दूरीकृत्य धनुर्धरान्। ये येऽमृतं पिबन्ति स्म ते ते युद्ध्यन्ति दानवैः;
ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम्। राहुर्विबुधरूपेण दानवः प्रापिबत्तदा
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा। आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया
ततो भगवता तस्य शिरश्छिन्नमलंकृतम्। चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा
तच्छैलशृह्गप्रङ्गिमं दानवस्य शिरो महत्। `चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम्
चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम्। तत्कबन्धं पपातास्य विस्फुरद्धरणीतले
त्रयोदश सहस्राणि चतुरश्रं समन्ततः। सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम्
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै। शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः। नानाप्रहरणैर्भीमैर्दानवान्तमकम्पयत्
ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः। सुराणामसुराणां च सर्वघोरतरो महान्
प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः। तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु। असिशक्तिगदारुग्णा निपेतुर्धरणीतले
छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः। तप्तकाञ्चनमालीनि निपेतुरनिशं तदा
रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः। अद्रीणामिव कूटानि धातुरक्तानि शेरते
आहाकारः समभवत्तत्र तत्र सहस्रशः। अन्योन्यंछिन्दतां शस्त्रैरादित्ये लोहितायति
परिघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः। निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्
छिन्धिभिन्धि प्रधाव त्वं पातयाभिसरेति च। व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः
एवं सुतुमुले युद्धे वर्तमाने महाभये। नरनारायणौ देवौ समाजग्मतुराहवम्