न जहौ पुत्रशोकार्ता जरिता खाण्डवे सुतान्। बभार चैतान्संजातान्स्ववृत्त्या स्नेहविक्लवा
ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः। मन्दपालश्चरंस्तस्मिन्वने लपितया सह
तं संकल्पं विदित्वाग्नेर्ज्ञात्वा पुत्रांश्च बालकान्। सोऽभितुष्टाव विप्रर्षिब्रार्ह्मणो जातवेदसम्
त्वमग्ने सर्वलोकानां मुखं त्वमसि हव्यवाट्
त्वमन्तः सर्वभूतानां गूढश्चरसि पावक। त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः
त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन्। त्वया विश्वमिदं सृष्टं वदन्ति परमर्षयः
त्वदृते हि जगत्कृत्स्नं सद्यो नश्येद्धुताशन। तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम्
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम्। त्वामग्ने जलदानाहुः खेविषक्तान्सविद्युतः
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः। जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते
तवैव कर्मविहितं भूतं सर्वं चराचरम्। त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत्
त्वयि हव्यं च कव्यं च यथावत्संप्रतिष्ठितम्। त्वमेव दहनो देव त्वं धाता त्वं बृहस्पतिः
त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः
तुतोष तस्य नृपते मुनेरमिततेजसः। उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते
तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम्। प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः। खाण्डवे तेन काले न प्रजज्वाल दिदक्षया
ततः प्रज्वलिते वह्नौ शार्ङ्गकास्ते सुदुःखिताः। व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम्
निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी। जरिता शोकदुःखार्ता विललाप सुदुःखिता
अयमग्निर्दहन्कक्षमित आयाति भीषणः। जगत्संदीपयन्भीमो मम दुःखविवर्धनः
इमे च मां कर्षयन्ति शिशवो मन्दचेतसः। अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणाः
त्रासयंश्चायमायाति लेलिहानो महीरुहान्। अजातपक्षाश्च सुता न शक्ताः सरणे मम
आदाय च न शक्नोमि पुत्रांस्तरितुमात्मना। न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे
कं तु जह्यामहं पुत्रं कमादाय व्रजाम्यहम्। किंनु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम्
चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन। छादयिष्यामि वो गात्रैः करिष्ये मरणं सह
जरितारौ कुलं ह्येतज्ज्येष्ठत्वेन प्रतिष्ठितम्। सारिसृक्कः प्रजायेत पितॄणां कुलवर्धनः
स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदां वरः। इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा
कमुपादाय शक्येयं गन्तुं कष्टाऽऽपदुत्तमा। किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला। नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात्
एवं ब्रुवाणां शार्ङ्गास्ते प्रत्यूचुरथ मातरम्। स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट्
अस्मास्विह विनष्टेषु भवितारः सुतास्तव। त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः
अन्ववेक्ष्यैतदुभयं क्षेमं स्याद्यत्कुलस्य नः। तद्वै कर्तुं परः कालो मातरेष भवेत्तव
मा त्वं सर्वविनाशाय स्नेहं कार्षीः सुतेषु नः। न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः