उपर्याकाशगो भूत्वा विधूमः समपद्यत। दीप्ताक्षो दीप्तजिह्वश्च संप्रदीप्तमहाननः
दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम्। तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः
बभूव मुदितस्तृप्तः परां निर्वृतिमागतः। तथाऽसुरं मयं नाम तक्षकस्य निवेशनात्
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः। तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः
शरीरवाञ्जटी भूत्वा नदन्निव बलाहकः। विज्ञाय दानवेन्द्राणां मयं वै शिल्पिनां वरम्
जिघांसुर्वासुदेवस्तं चक्रमुद्यम्य धिष्ठितः। स चक्रमुद्यतं दृष्ट्वा दिधक्षन्तं च पावकम्
अभिधावार्जुनेत्येवं मयस्त्राहीति चाब्रवीत्। तस्य भीतस्वनं श्रुत्वा मा भैरिति धनंजयः
प्रत्युवाच मयं पार्थो जीवयन्निव भारत। तं न भेतव्यमित्याह मयं पार्थो दयापरः
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम्। न हन्तुमैच्छद्दाशार्हः पावको न ददाह च
तद्वनं पावको धीमान्दिनानि दश पञ्च च। ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात्
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च। अश्वसेनं मयं चैव चतुरः शार्ङ्गकांस्तथा
किमर्थं शार्ङ्गकानग्निर्न ददाह तथा गते। तस्मिन्वने दह्यमाने ब्रह्मन्नेतत्प्रचक्ष्व मे
अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च। कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकाणां न कीर्तितम्
तदेतदद्भुतं ब्रह्मञ्शार्ङ्गकाणामनामयम्। कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः
यदर्थं शार्ङ्गकानग्निर्न ददाह तथा गते। तत्ते सर्वं प्रवक्ष्यामि यथा भूतमरिन्दम
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः। आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः
स मार्गमाश्रितो राजन्नृषीणामूर्ध्वरेतसाम्। स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः
स गत्वा तपसः पारं देहमुत्सृज्य भारत। जगाम पितृलोकाय न लेभे तत्र तत्फलम्
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि। पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः
किमर्थमावृता लोका ममैते तपसाऽर्जिताः। किं मया न कृतं तत्र यस्यैतत्कर्मणः फलम्
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम्। फलमेतस्य तपसः कथयध्वं दिवौकसः
ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु। क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः
तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः। तपस्वी यज्ञकृच्चासि न च ते विद्यते प्रजा
त इमे प्रसवस्यार्थे तव लोकाः समावृताः। प्रजायस्व ततो लोकानुपभोक्ष्यसि पुष्कलान्
पुन्नाम्नो नरकात्पुत्रस्त्रायते पितरं श्रुतिः। तस्मादपत्यसन्ताने यतस्व ब्रह्मसत्तम
तच्छ्रुत्वा मन्दपालस्तु वचस्तेषां दिवौकसाम्। क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत्
स चिन्तयन्नभ्यगच्छत्सुबहुप्रसवान्खगान्। शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान्
तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः। तानपास्य स तत्रैव जगाम लपितां प्रति
बालान्स तानण्डगतान्सह मात्रा मुनिर्वने। तस्मिन्गते महाभागे लपितां प्रति भारत
अपत्यस्नेहसंयुक्ता जरिता बह्वचिन्तयत्। तेन त्यक्तानसंत्याज्यानृषीनण्डगतान्वने