व्यधमच्छरसङ्घातैर्देहिनः खाण्डवालयान्। न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः
संछिद्यमानमिषुभिरस्यता सव्यसाचिना। नाशक्नुवंश्च भूतानि महान्त्यपि रणेऽर्जुनम्
निरीक्षितुममोघास्त्रं योद्धुं चापि कुतो रणे। शतं चैकेन विव्याध शतेनैकं पतत्रिणाम्
व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव। न चालभन्त ते शर्म रोधःसु विषमेषु च
पितृदेवनिवासेषु सन्तापश्चाप्यजायत। भूतसङ्घाश्च बहवो दीनाश्चक्रुर्महास्वनम्
रुरुदुर्वारणाश्चैव तथा मृगतरक्षवः। तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः
विद्याधरगणाश्चैव ये च तत्र वनौकसः। न त्वर्जुनं महाबाहो नापि कृष्णं जनार्दनम्
निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः। एकायनगता येऽपि निष्पेतुस्तत्र केचन
राक्षसा दानवा नागा जघ्ने चक्रेण तान्हरिः। ते तु भिन्नशिरोदेहाश्चक्रवेगाद्गतासवः
पेतुरन्ये महाकायाः प्रदीप्ते वसुरेतसि। समांसरुधिरौधैश्च वसाभिश्चापि तर्पितः
उपर्याकाशगो भूत्वा विधूमः समपद्यत। दीप्ताक्षो दीप्तजिह्वश्च संप्रदीप्तमहाननः
दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम्। तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः
बभूव मुदितस्तृप्तः परां निर्वृतिमागतः। तथाऽसुरं मयं नाम तक्षकस्य निवेशनात्
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः। तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः
शरीरवाञ्जटी भूत्वा नदन्निव बलाहकः। विज्ञाय दानवेन्द्राणां मयं वै शिल्पिनां वरम्
जिघांसुर्वासुदेवस्तं चक्रमुद्यम्य धिष्ठितः। स चक्रमुद्यतं दृष्ट्वा दिधक्षन्तं च पावकम्
अभिधावार्जुनेत्येवं मयस्त्राहीति चाब्रवीत्। तस्य भीतस्वनं श्रुत्वा मा भैरिति धनंजयः
प्रत्युवाच मयं पार्थो जीवयन्निव भारत। तं न भेतव्यमित्याह मयं पार्थो दयापरः
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम्। न हन्तुमैच्छद्दाशार्हः पावको न ददाह च
तद्वनं पावको धीमान्दिनानि दश पञ्च च। ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात्
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च। अश्वसेनं मयं चैव चतुरः शार्ङ्गकांस्तथा
किमर्थं शार्ङ्गकानग्निर्न ददाह तथा गते। तस्मिन्वने दह्यमाने ब्रह्मन्नेतत्प्रचक्ष्व मे
अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च। कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकाणां न कीर्तितम्
तदेतदद्भुतं ब्रह्मञ्शार्ङ्गकाणामनामयम्। कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः
यदर्थं शार्ङ्गकानग्निर्न ददाह तथा गते। तत्ते सर्वं प्रवक्ष्यामि यथा भूतमरिन्दम
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः। आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः
स मार्गमाश्रितो राजन्नृषीणामूर्ध्वरेतसाम्। स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः
स गत्वा तपसः पारं देहमुत्सृज्य भारत। जगाम पितृलोकाय न लेभे तत्र तत्फलम्
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि। पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः
किमर्थमावृता लोका ममैते तपसाऽर्जिताः। किं मया न कृतं तत्र यस्यैतत्कर्मणः फलम्