ततोऽक्षमात्रा व्यसृजन्धाराः शतसहस्रशः। चोदिता देवराजेन जलदाः खाण्डवं प्रति
असंप्राप्तास्तु ता धारास्तेजसा जातवेदसः। ख एव समुशुष्यन्त नकाश्चित्पावकं गताः
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा। पुनरेव महामेघैरम्भांसि व्यसृजद्बहु
अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम्। बभूव तद्वनं घोरं स्तनयित्नुसमाकुलम्
तथा शैलनिपातेन भीषिताः खाण्डवालयाः। दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा। मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा
समुद्विग्ना विससृपुस्तथान्या भूतजातयः। तं दावं समुदैक्षन्त कृष्णौ चाभ्युद्यतायुधौ
उत्पातनादशब्देन त्रासिता इव चाभवन्। ते वनं प्रसमीक्ष्याथ दह्यमानमनेकधा
कृष्णमभ्युद्यतास्त्रं च नादं मुमुचुरुल्बणम्। तेन नादेन रौद्रेण नादेन च विभावसोः
ररास गगनं कृत्स्नमुत्पातजलदैरिव। ततः कृष्णो महाबाहुः स्वतेजोभास्वरं महत्
चक्रं व्यसृजदत्युग्रं तेषां नाशाय केशवः। तेनार्ता जातयः क्षुद्राः सदानवनिशाचराः
निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात्। तत्रादृश्यन्त ते दैत्याः कृष्णचक्रविदारिताः
वसारुधिरसंपृक्ताः सन्ध्यायामिव तोयदाः। पिशाचान्पक्षिणो नागान्पशूंश्चैव सहस्रशः
निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत। क्षिप्तं क्षिप्तं पुनश्चक्रं कृष्णस्यामित्रघातिनः
छित्त्वानेकानि सत्वानि पाणिमेति पुनः पुनः। तथा तु निघ्नतस्तस्य पिशाचोरगराक्षसान्
बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा। समेतानां च सर्वेषां दानवानां च सर्वशः
विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे। तयोर्बलात्परित्रातुं तं च दावं यदा सुराः
नाशक्नुवञ्शमयितुं तदाऽभूवन्पराङ्मुखाः। शतक्रतुस्तु संप्रेक्ष्य विमुखानमरांस्तथा
बभूव मुदितो राजन्प्रशंसन्केशवार्जुनौ। निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी
शतक्रतुं समाभाष्य महागम्भीरनिःस्वना। न ते सखा सन्निहितस्तक्षको भुजगोत्तमः
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ। न च शक्यौ युधा जेतुं कथंचिदपि वासव
वासुदेवार्जुनावेतौ निबोध वचनान्मम। नरनारायणावेतौ पूर्वदेवौ दिवि श्रुतौ
भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ। नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि
अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ। पूजनीयतमावेतावपि सर्वैः सुरासुरैः
यक्षराक्षसगन्धर्वनरकिन्नरपन्नगैः। तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव
दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम्। इति वाक्यमुपश्रुत्य तथ्यमित्यमरेश्वरः
क्रोधामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा। तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः
सहिताः सेनया राजन्ननुजग्मुः पुरन्दरम्। देवराजं तदा यान्तं सह देवैरवेक्ष्य तु
वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः। देवराजे गते राजन्प्रहृष्टौ केशवार्जुनौ
निर्विशङ्कं वनं वीरौ दाहयामासतुस्तदा। स मारुत इवाभ्राणि नाशयित्वाऽर्जुनः सुरान्