जलाशयेषु तप्तेषु क्वाथ्यमानेषु वह्निना। गतसत्वाः स्म दृश्यन्ते कूर्ममत्स्याः समन्ततः
शरीरैरपरे दीप्तैर्देहवन्त इवाग्नयः। अदृश्यन्त वने तत्र प्राणिनः प्राणिसंक्षये
कांश्चिदुत्पततः पार्थः शरैः संछिद्य खण्डशः। पातयामास विहगान्प्रदीप्ते वसुरेतसि
ते शराचितसर्वाङ्गा निनदन्तो महारवान्। ऊर्ध्वमुत्पत्य वेगेन निपेतुः खाण्डवे पुनः
शरैरभ्याहतानां च सङ्घशः स्म वनौकसाम्। विरावः शुश्रुवे घोरः समुद्रस्येव मथ्यतः
वह्नेश्चापि प्रदीप्तस्य खमुत्पेतुर्महार्चिषः। जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम्
तेनार्चिषा सुसन्तप्ता देवाः सर्षिपुरोगमाः। ततो जग्मुर्महात्मानः सर्व एव दिवौकसः। शतक्रतुं सहस्राक्षं देवेशमसुरार्दनम्
किं न्विमे मानवाः सर्वे दह्यन्ते चित्रभानुना। कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर
तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च। खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः
महता रथबृन्देन नानारूपेण वासवः। आकाशं समवाकीर्य प्रववर्ष सुरेश्वरः
ततोऽक्षमात्रा व्यसृजन्धाराः शतसहस्रशः। चोदिता देवराजेन जलदाः खाण्डवं प्रति
असंप्राप्तास्तु ता धारास्तेजसा जातवेदसः। ख एव समुशुष्यन्त नकाश्चित्पावकं गताः
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा। पुनरेव महामेघैरम्भांसि व्यसृजद्बहु
अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम्। बभूव तद्वनं घोरं स्तनयित्नुसमाकुलम्
तथा शैलनिपातेन भीषिताः खाण्डवालयाः। दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा। मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा
समुद्विग्ना विससृपुस्तथान्या भूतजातयः। तं दावं समुदैक्षन्त कृष्णौ चाभ्युद्यतायुधौ
उत्पातनादशब्देन त्रासिता इव चाभवन्। ते वनं प्रसमीक्ष्याथ दह्यमानमनेकधा
कृष्णमभ्युद्यतास्त्रं च नादं मुमुचुरुल्बणम्। तेन नादेन रौद्रेण नादेन च विभावसोः
ररास गगनं कृत्स्नमुत्पातजलदैरिव। ततः कृष्णो महाबाहुः स्वतेजोभास्वरं महत्
चक्रं व्यसृजदत्युग्रं तेषां नाशाय केशवः। तेनार्ता जातयः क्षुद्राः सदानवनिशाचराः
निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात्। तत्रादृश्यन्त ते दैत्याः कृष्णचक्रविदारिताः
वसारुधिरसंपृक्ताः सन्ध्यायामिव तोयदाः। पिशाचान्पक्षिणो नागान्पशूंश्चैव सहस्रशः
निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत। क्षिप्तं क्षिप्तं पुनश्चक्रं कृष्णस्यामित्रघातिनः
छित्त्वानेकानि सत्वानि पाणिमेति पुनः पुनः। तथा तु निघ्नतस्तस्य पिशाचोरगराक्षसान्
बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा। समेतानां च सर्वेषां दानवानां च सर्वशः
विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे। तयोर्बलात्परित्रातुं तं च दावं यदा सुराः
नाशक्नुवञ्शमयितुं तदाऽभूवन्पराङ्मुखाः। शतक्रतुस्तु संप्रेक्ष्य विमुखानमरांस्तथा
बभूव मुदितो राजन्प्रशंसन्केशवार्जुनौ। निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी
शतक्रतुं समाभाष्य महागम्भीरनिःस्वना। न ते सखा सन्निहितस्तक्षको भुजगोत्तमः