अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु। निर्दिष्टमासनं भेजे विनयाद्रौमहर्षणिः
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च। अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः
कुत आगम्यते सौते क्वचायं विहृतस्त्वया। कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम
एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौमहर्षणिः। वाक्यं वचनसंपन्नस्तेषां च चरिताश्रयम्
तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम्
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च। कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः
कथिताश्चापि विधिवद्या वैशंपायनेन वै। श्रुत्वाऽहं ता विचित्रार्था महाभारतसंश्रिताः
बहूनि संपरिक्रम्य तीर्थान्यायतनानि च। समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्
गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा। कुरूणां पाण्डवानां च सर्वेषां च महीक्षिताम्
दिदृक्षुंरागतस्तस्मात्समीपं भावतामिह। आयुष्मन्तः सर्व एव ब्रह्मभाता हि मे मताः।। अस्मिन्यज्ञे महाभङ्गाः सूर्यपावकवर्चसः
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः। भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः
पुराणसंहिताः पुण्याः कथा धर्मार्थसंश्रिताः। इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम्
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा। सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम्
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः। सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम्। संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम्
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान्। यथावत्स ऋषिः पृष्टः सत्रे द्वैपायनाज्ञया
वेदैश्चतुर्भिः सयुक्तां व्यासस्याद्भुतकर्मणः। संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम्
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्। ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्
असच्च सच्चैव च यद्विश्वं सदसतः परम् परावराणां स्रष्टारं पुराणं परमव्ययम्
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्। नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्
महर्षेः पूजितस्येह सर्वलोकैर्महात्मनः। प्रवक्ष्यामि मतं पुण्यं व्यासस्याद्भुतकर्मणः
नमो भगवते तस्मै व्यासायामिततेजसे। यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्
सर्वाश्रमाभिशमनं सर्वतीर्थावगाहनम्। न तथा फलद सूते नारायणकथा यथा
नास्ति नारायणसमं न भूतं न भविष्यति। एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम्
आचख्युः कवयः केचित्संप्रत्याचक्षते परे। आख्यास्यन्ति तथैवान्य इतिहासमिमं भुवि
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम्। विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः
अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यधनुषैः। छन्दोवृत्तैश्च विविधैरन्वितं विदुषांप्रियम्
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्। इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः
पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये। विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः
शुचिः सनियमो व्यासः शान्तात्मातपसि स्थितः भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम्