नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं चैव(व्यासं) ततो जयमुदीरयेत्
नारायणं सुरगुरुं जगदेकनाथं' भक्तप्रियं सकललोकनमस्कृतं च। त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम्
नमो धर्माय महते नमः कृष्णाय वेधसे। ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्
ॐ नमो भगवते वासुदेवाय। ॐ नमः पितामहाय। ॐ नमः प्रजापतिभ्यः। ॐ नमः कृष्णद्वैपायनाय। ॐ नमः सर्वविघ्नविनायकेभ्यः
रोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिशारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे
सुखासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान्। विनयावनतो भूत्वा कदाचित्सूतनन्दनः
तमाश्रममनुप्राप्य नैमिशारण्यवासिनः। `उवाच तानृषीन्सर्वान्धन्यो वोऽस्म्यद्यदर्शनात्
वेद वैयासिकीः सर्वाः कथा धर्मार्यैसंहिताः। वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्वद्य तपोधनाः
तस्य तद्वचनं श्रुत्वा नैमिशारण्यवासिनः। चित्रा श्रोतुं कथास्तत्र परिव्रुस्तपस्विनः
अभिवाद्य मुनींस्तांस्तु सर्वानेव कुताञ्जलिः। अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिपूजितः
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु। निर्दिष्टमासनं भेजे विनयाद्रौमहर्षणिः
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च। अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः
कुत आगम्यते सौते क्वचायं विहृतस्त्वया। कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम
एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौमहर्षणिः। वाक्यं वचनसंपन्नस्तेषां च चरिताश्रयम्
तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम्
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च। कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः
कथिताश्चापि विधिवद्या वैशंपायनेन वै। श्रुत्वाऽहं ता विचित्रार्था महाभारतसंश्रिताः
बहूनि संपरिक्रम्य तीर्थान्यायतनानि च। समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्
गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा। कुरूणां पाण्डवानां च सर्वेषां च महीक्षिताम्
दिदृक्षुंरागतस्तस्मात्समीपं भावतामिह। आयुष्मन्तः सर्व एव ब्रह्मभाता हि मे मताः।। अस्मिन्यज्ञे महाभङ्गाः सूर्यपावकवर्चसः
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः। भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः
पुराणसंहिताः पुण्याः कथा धर्मार्थसंश्रिताः। इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम्
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा। सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम्
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः। सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम्। संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम्
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान्। यथावत्स ऋषिः पृष्टः सत्रे द्वैपायनाज्ञया
वेदैश्चतुर्भिः सयुक्तां व्यासस्याद्भुतकर्मणः। संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम्
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्। ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्
असच्च सच्चैव च यद्विश्वं सदसतः परम् परावराणां स्रष्टारं पुराणं परमव्ययम्
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्। नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्