धर्मार्थकाममोक्षांश्च द्विपदादिचराचरम्। मन्यन्ते योगिनः सर्वं मरीचिजलसन्निभम्
अतीतानागतं कर्म वर्तमानं तथैव च। न करोमि न भुञ्जामि इति मे निश्चला मतिः
शून्यागारे समरसपूत- स्तिष्ठन्नेकः सुखमवधूतः। चरति हि नग्नस्त्यक्त्वा गर्वं विन्दति केवलमात्मनि सर्वम्
त्रितयतुरीयं नहि नहि यत्र विन्दति केवलमात्मनि तत्र। धर्माधर्मौ नहि नहि यत्र बद्धो मुक्तः कथमिह तत्र
विन्दति विन्दति नहि नहि मन्त्रं छन्दोलक्षणं नहि नहि तन्त्रम्। समरसमग्नो भावितपूतः प्रलपितमेतत्परमवधूतः
सर्वशून्यमशून्यं च सत्यासत्यं न विद्यते। स्वभावभावतः प्रोक्तं शास्त्रसंवित्तिपूर्वकम्
इति प्रथमोऽध्यायः
बालस्य वा विषयभोगरतस्य वापि मूर्खस्य सेवकजनस्य गृहस्थितस्य। एतद्गुरोः किमपि नैव न चिन्तनीयं रत्नं कथं त्यजति कोऽप्यशुचौ प्रविष्टम्
नैवात्र काव्यगुण एव तु चिन्तनीयो ग्राह्यः परं गुणवता खलु सार एव। सिन्दूरचित्ररहिता भुवि रूपशून्या पारं न किं नयति नौरिह गन्तुकामान्
प्रयत्नेन विना येन निश्चलेन चलाचलम्। ग्रस्तं स्वभावतः शान्तं चैतन्यं गगनोपमम्
अयत्नाछालयेद्यस्तु एकमेव चराचरम्। सर्वगं तत्कथं भिन्नमद्वैतं वर्तते मम
अहमेव परं यस्मात्सारात्सारतरं शिवम्। गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम्
सर्वावयवनिर्मुक्तं तथाहं त्रिदशार्चितम्। संपूर्णत्वान्न गृह्णामि विभागं त्रिदशादिकम्
प्रमादेन न सन्देहः किं करिष्यामि वृत्तिमान्। उत्पद्यन्ते विलीयन्ते बुद्बुदाश्च यथा जले
महदादीनि भूतानि समाप्यैवं सदैव हि। मृदुद्रव्येषु तीक्ष्णेषु गुडेषु कटुकेषु च
कटुत्वं चैव शैत्यत्वं मृदुत्वं च यथा जले। प्रकृतिः पुरुषस्तद्वदभिन्नं प्रतिभाति मे
सर्वाख्यारहितं यद्यत्सूक्ष्मात्सूक्ष्मतरं परम्। मनोबुद्धीन्द्रियातीतमकलङ्कं जगत्पतिम्
ईदृशं सहजं यत्र अहं तत्र कथं भवेत्। त्वमेव हि कथं तत्र कथं तत्र चराचरम्
गगनोपमं तु यत्प्रोक्तं तदेव गगनोपमम्। चैतन्यं दोषहीनं च सर्वज्ञं पूर्णमेव च
पृथिव्यां चरितं नैव मारुतेन च वाहितम्। वरिणा पिहितं नैव तेजोमध्ये व्यवस्थितम्
आकाशं तेन संव्याप्तं न तद्व्याप्तं च केनचित्। स बाह्याभ्यन्तरं तिष्ठत्यवच्छिन्नं निरन्तरम्
सूक्ष्मत्वात्तददृश्यत्वान्निर्गुणत्वाच्च योगिभिः। आलम्बनादि यत्प्रोक्तं क्रमादालम्बनं भवेत्
सतताऽभ्यासयुक्तस्तु निरालम्बो यदा भवेत्। तल्लयाल्लीयते नान्तर्गुणदोषविवर्जितः
विषविश्वस्य रौद्रस्य मोहमूर्च्छाप्रदस्य च। एकमेव विनाशाय ह्यमोघं सहजामृतम्
भावगम्यं निराकारं साकारं दृष्टिगोचरम्। भावाभावविनिर्मुक्तमन्तरालं तदुच्यते
बाह्यभावं भवेद्विश्वमन्तः प्रकृतिरुच्यते। अन्तरादन्तरं ज्ञेयं नारिकेलफलाम्बुवत्
भ्रान्तिज्ञानं स्थितं बाह्यं सम्यग्ज्ञानं च मध्यगम्। मध्यान्मध्यतरं ज्ञेयं नारिकेलफलाम्बुवत्
पौर्णमास्यां यथा चन्द्र एक एवातिनिर्मलः। तेन तत्सदृशं पश्येद्द्विधादृष्टिर्विपर्ययः
अनेनैव प्रकारेण बुद्धिभेदो न सर्वगः। दाता च धीरतामेति गीयते नामकोटिभिः
गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पण्डितः। यस्तु संबुध्यते तत्त्वं विरक्तो भवसागरात्