सर्वं जगद्विद्धि निराकृतीदं सर्वं जगद्विद्धि विकारहीनम्। सर्वं जगद्विद्धि विशुद्धदेहं सर्वं जगद्विद्धि शिवैकरूपम्
तत्त्वं त्वं न हि सन्देहः किं जानाम्यथवा पुनः। असंवेद्यं स्वसंवेद्यमात्मानं मन्यसे कथम्
मायाऽमाया कथं तात छायाऽछाया न विद्यते। तत्त्वमेकमिदं सर्वं व्योमाकारं निरञ्जनम्
आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन। स्वभावनिर्मलः शुद्ध इति मे निश्चिता मतिः
महदादि जगत्सर्वं न किंचित्प्रतिभाति मे। ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमस्थितिः
जानामि सर्वथा सर्वमहमेको निरन्तरम्। निरालम्बमशून्यं च शून्यं व्योमादिपञ्चकम्
न षण्ढो न पुमान्न स्त्री न बोधो नैव कल्पना। सानन्दो वा निरानन्दमात्मानं मन्यसे कथम्
षडङ्गयोगान्न तु नैव शुद्धं मनोविनाशान्न तु नैव शुद्धम्। गुरूपदेशान्न तु नैव शुद्धं स्वयं च तत्त्वं स्वयमेव बुद्धम्
न हि पञ्चात्मको देहो विदेहो वर्तते न हि। आत्मैव केवलं सर्वं तुरीयं च त्रयं कथम्
न बद्धो नैव मुक्तोऽहं न चाहं ब्रह्मणः पृथक्। न कर्ता न च भोक्ताहं व्याप्यव्यापकवर्जितः
यथा जलं जले न्यस्तं सलिलं भेदवर्जितम्। प्रकृतिं पुरुषं तद्वदभिन्नं प्रतिभाति मे
यदि नाम न मुक्तोऽसि न बद्धोऽसि कदाचन। साकारं च निराकारमात्मानं मन्यसे कथम्
जानामि ते परं रूपं प्रत्यक्षं गगनोपमम्। यथा परं हि रूपं यन्मरीचिजलसन्निभम्
न गुरुर्नोपदेशश्च न चोपाधिर्न मे क्रिया। विदेहं गगनं विद्धि विशुद्धोऽहं स्वभावतः
विशुद्धोऽस्य शरीरोऽसि न ते चित्तं परात्परम्। अहं चात्मा परं तत्त्वमिति वक्तुं न लज्जसे
कथं रोदिषि रे चित्त ह्यात्मैवात्मात्मना भव। पिब वत्स कलातीतमद्वैतं परमामृतम्
नैव बोधो न चाबोधो न बोधाबोध एव च। यस्येदृशः सदा बोधः स बोधो नान्यथा भवेत्
ज्ञानं न तर्को न समाधियोगो न देशकालौ न गुरूपदेशः। स्वभावसंवित्तरहं च तत्त्व- माकाशकल्पं सहजं ध्रुवं च
न जातोऽहं मृतो वापि न मे कर्म शुभाशुभम्। विशुद्धं निर्गुणं ब्रह्म बन्धो मुक्तिः कथं मम
यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरः। अन्तरं हि न पश्यामि स बाह्याभ्यन्तरः कथम्
स्फुरत्येव जगत्कृत्स्नमखण्डितनिरन्तरम्। अहो मायामहामोहो द्वैताद्वैतविकल्पना
साकारं च निराकारं नेति नेतीति सर्वदा। भेदाभेदविनिर्मुक्तो वर्तते केवलः शिवः
न ते च माता च पिता च बन्धुः न ते च पत्नी न सुतश्च मित्रम्। न पक्षपाती न विपक्षपातः कथं हि संतप्तिरियं हि चित्ते
दिवा नक्तं न ते चित्तं उदयास्तमयौ न हि। विदेहस्य शरीरत्वं कल्पयन्ति कथं बुधाः
नाविभक्तं विभक्तं च न हि दुःखसुखादि च। न हि सर्वमसर्वं च विद्धि चात्मानमव्ययम्
नाहं कर्ता न भोक्ता च न मे कर्म पुराऽधुना। न मे देहो विदेहो वा निर्ममेति ममेति किम्
न मे रागादिको दोषो दुःखं देहादिकं न मे। आत्मानं विद्धि मामेकं विशालं गगनोपमम्
सखे मनः किं बहुजल्पितेन सखे मनः सर्वमिदं वितर्क्यम्। यत्सारभूतं कथितं मया ते त्वमेव तत्त्वं गगनोपमोऽसि
येन केनापि भावेन यत्र कुत्र मृता अपि। योगिनस्तत्र लीयन्ते घटाकाशमिवाम्बरे
तीर्थे चान्त्यजगेहे वा नष्टस्मृतिरपि त्यजन्। समकाले तनुं मुक्तः कैवल्यव्यापको भवेत्