घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम्। शिवेन मनसा शुद्धो न भेदः प्रतिभाति मे
न घटो न घटाकाशो न जीवो न जीवविग्रहः। केवलं ब्रह्म संविद्धि वेद्यवेदकवर्जितम्
सर्वत्र सर्वदा सर्वमात्मानं सततं ध्रुवम्। सर्वं शून्यमशून्यं च तन्मां विद्धि न संशयः
वेदा न लोका न सुरा न यज्ञा वर्णाश्रमो नैव कुलं न जातिः। न धूममार्गो न च दीप्तिमार्गो ब्रह्मैकरूपं परमार्थतत्त्वम्
व्याप्यव्यापकनिर्मुक्तः त्वमेकः सफलं यदि। प्रत्यक्षं चापरोक्षं च ह्यात्मानं मन्यसे कथम्
अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे। समं तत्त्वं न विन्दन्ति द्वैताद्वैतविवर्जितम्
श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम्। कथयन्ति कथं तत्त्वं मनोवाचामगोचरम्
यदाऽनृतमिदं सर्वं देहादिगगनोपमम्। तदा हि ब्रह्म संवेत्ति न ते द्वैतपरम्परा
परेण सहजात्मापि ह्यभिन्नः प्रतिभाति मे। व्योमाकारं तथैवैकं ध्याता ध्यानं कथं भवेत्
यत्करोमि यदश्नामि यज्जुहोमि ददामि यत्। एतत्सर्वं न मे किंचिद्विशुद्धोऽहमजोऽव्ययः
सर्वं जगद्विद्धि निराकृतीदं सर्वं जगद्विद्धि विकारहीनम्। सर्वं जगद्विद्धि विशुद्धदेहं सर्वं जगद्विद्धि शिवैकरूपम्
तत्त्वं त्वं न हि सन्देहः किं जानाम्यथवा पुनः। असंवेद्यं स्वसंवेद्यमात्मानं मन्यसे कथम्
मायाऽमाया कथं तात छायाऽछाया न विद्यते। तत्त्वमेकमिदं सर्वं व्योमाकारं निरञ्जनम्
आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन। स्वभावनिर्मलः शुद्ध इति मे निश्चिता मतिः
महदादि जगत्सर्वं न किंचित्प्रतिभाति मे। ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमस्थितिः
जानामि सर्वथा सर्वमहमेको निरन्तरम्। निरालम्बमशून्यं च शून्यं व्योमादिपञ्चकम्
न षण्ढो न पुमान्न स्त्री न बोधो नैव कल्पना। सानन्दो वा निरानन्दमात्मानं मन्यसे कथम्
षडङ्गयोगान्न तु नैव शुद्धं मनोविनाशान्न तु नैव शुद्धम्। गुरूपदेशान्न तु नैव शुद्धं स्वयं च तत्त्वं स्वयमेव बुद्धम्
न हि पञ्चात्मको देहो विदेहो वर्तते न हि। आत्मैव केवलं सर्वं तुरीयं च त्रयं कथम्
न बद्धो नैव मुक्तोऽहं न चाहं ब्रह्मणः पृथक्। न कर्ता न च भोक्ताहं व्याप्यव्यापकवर्जितः
यथा जलं जले न्यस्तं सलिलं भेदवर्जितम्। प्रकृतिं पुरुषं तद्वदभिन्नं प्रतिभाति मे
यदि नाम न मुक्तोऽसि न बद्धोऽसि कदाचन। साकारं च निराकारमात्मानं मन्यसे कथम्
जानामि ते परं रूपं प्रत्यक्षं गगनोपमम्। यथा परं हि रूपं यन्मरीचिजलसन्निभम्
न गुरुर्नोपदेशश्च न चोपाधिर्न मे क्रिया। विदेहं गगनं विद्धि विशुद्धोऽहं स्वभावतः
विशुद्धोऽस्य शरीरोऽसि न ते चित्तं परात्परम्। अहं चात्मा परं तत्त्वमिति वक्तुं न लज्जसे
कथं रोदिषि रे चित्त ह्यात्मैवात्मात्मना भव। पिब वत्स कलातीतमद्वैतं परमामृतम्
नैव बोधो न चाबोधो न बोधाबोध एव च। यस्येदृशः सदा बोधः स बोधो नान्यथा भवेत्
ज्ञानं न तर्को न समाधियोगो न देशकालौ न गुरूपदेशः। स्वभावसंवित्तरहं च तत्त्व- माकाशकल्पं सहजं ध्रुवं च
न जातोऽहं मृतो वापि न मे कर्म शुभाशुभम्। विशुद्धं निर्गुणं ब्रह्म बन्धो मुक्तिः कथं मम
यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरः। अन्तरं हि न पश्यामि स बाह्याभ्यन्तरः कथम्