विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र। समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः
इति षष्ठमोऽध्यायः
रथ्याकर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः। शून्यागारे तिष्ठति नग्नो शुद्धनिरञ्जनसमरसमग्नः
लक्ष्यालक्ष्यविवर्जितलक्ष्यो युक्तायुक्तविवर्जितदक्षः। केवलतत्त्वनिरञ्जनपूतो वादविवादः कथमवधूतः
आशापाशविबन्धनमुक्ताः शौचाचारविवर्जितयुक्ताः। एवं सर्वविवर्जितशान्त- स्तत्त्वं शुद्धनिरञ्जनवन्तः
कथमिह देहविदेहविचारः कथमिह रागविरागविचारः। निर्मलनिश्चलगगनाकारं स्वयमिह तत्त्वं सहजाकारम्
कथमिह तत्त्वं विन्दति यत्र रूपमरूपं कथमिह तत्र। गगनाकारः परमो यत्र विषयीकरणं कथमिह तत्र
गगनाकारनिरन्तरहंस- स्तत्त्वविशुद्धनिरञ्जनहंसः। एवं कथमिह भिन्नविभिन्नं बन्धविबन्धविकारविभिन्नम्
केवलतत्त्वनिरन्तरसर्वं योगवियोगौ कथमिह गर्वम्। एवं परमनिरन्तरसर्व- मेवं कथमिह सारविसारम्
केवलतत्त्वनिरञ्जनसर्वं गगनाकारनिरन्तरशुद्धम्। एवं कथमिह सङ्गविसङ्गं सत्यं कथमिह रङ्गविरङ्गम्
योगवियोगै रहितो योगी भोगविभोगै रहितो भोगी। एवं चरति हि मन्दं मन्दं मनसा कल्पितसहजानन्दम्
बोधविबोधैः सततं युक्तो द्वैताद्वैतैः कथमिह मुक्तः। सहजो विरजः कथमिह योगी शुद्धनिरञ्जनसमरसभोगी
भग्नाभग्नविवर्जितभग्नो लग्नालग्नविवर्जितलग्नः। एवं कथमिह सारविसारः समरसतत्त्वं गगनाकारः
सततं सर्वविवर्जितयुक्तः सर्वं तत्त्वविवर्जितमुक्तः। एवं कथमिह जीवितमरणं ध्यानाध्यानैः कथमिह करणम्
इन्द्रजालमिदं सर्वं यथा मरुमरीचिका। अखण्डितमनाकारो वर्तते केवलः शिवः
धर्मादौ मोक्षपर्यन्तं निरीहाः सर्वथा वयम्। कथं रागविरागैश्च कल्पयन्ति विपश्चितः
विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र। समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः
इति सप्तमोऽध्यायः
त्वद्यात्रया व्यापकता हता ते ध्यानेन चेतःपरता हता ते। स्तुत्या मया वाक्परता हता ते क्षमस्व नित्यं त्रिविधापराधान्
कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः। अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः
अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः। अमानी मानदः कल्पो मैत्रः कारुणिकः कविः
कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम्। सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः
अवधूतलक्षणं वर्णैर्ज्ञातव्यं भगवत्तमैः। वेदवर्णार्थतत्त्वज्ञैर्वेदवेदान्तवादिभिः
आशापाशविनिर्मुक्त आदिमध्यान्तनिर्मलः। आनन्दे वर्तते नित्यमकारं तस्य लक्षणम्
वासना वर्जिता येन वक्तव्यं च निरामयम्। वर्तमानेषु वर्तेत वकारं तस्य लक्षणम्
धूलिधूसरगात्राणि धूतचित्तो निरामयः। धारणाध्याननिर्मुक्तो धूकारस्तस्य लक्षणम्
तत्त्वचिन्ता धृता येन चिन्ताचेष्टाविवर्जितः। तमोऽहंकारनिर्मुक्तस्तकारस्तस्य लक्षणम्
दत्तात्रेयावधूतेन निर्मितानन्दरूपिणा। ये पठन्ति च शृण्वन्ति तेषां नैव पुनर्भवः
इति अष्टमोऽध्यायः