इह सारसमुच्चयसारमिति। कथितं निजभावविभेद इति। विषये करणत्वमसत्यमिति किमु रोदिषि मानसि सर्वसमम्
बहुधा श्रुतयः प्रवदन्ति यतो वियदादिरिदं मृगतोयसमम्। यदि चैकनिरन्तरसर्वसमं किमु रोदिषि मानसि सर्वसमम्
विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र। समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः
इति पञ्चमोऽध्यायः
बहुधा श्रुतयः प्रवदन्ति वयं वियदादिरिदं मृगतोयसमम्। यदि चैकनिरन्तरसर्वशिव- मुपमेयमथोह्युपमा च कथम्
अविभक्तिविभक्तिविहीनपरं ननु कार्यविकार्यविहीनपरम्। यदि चैकनिरन्तरसर्वशिवं यजनं च कथं तपनं च कथम्
मन एव निरन्तरसर्वगतं ह्यविशालविशालविहीनपरम्। मन एव निरन्तरसर्वशिवं मनसापि कथं वचसा च कथम्
दिनरात्रिविभेदनिराकरण- मुदितानुदितस्य निराकरणम्। यदि चैकनिरन्तरसर्वशिवं रविचन्द्रमसौ ज्वलनश्च कथम्
गतकामविकामविभेद इति गतचेष्टविचेष्टविभेद इति। यदि चैकनिरन्तरसर्वशिवं बहिरन्तरभिन्नमतिश्च कथम्
यदि सारविसारविहीन इति यदि शून्यविशून्यविहीन इति। यदि चैकनिरन्तरसर्वशिवं प्रथमं च कथं चरमं च कथम्
यदिभेदविभेदनिराकरणं यदि वेदकवेद्यनिराकरणम्। यदि चैकनिरन्तरसर्वशिवं तृतीयं च कथं तुरीयं च कथम्
गदिताविदितं न हि सत्यमिति विदिताविदितं नहि सत्यमिति। यदि चैकनिरन्तरसर्वशिवं विषयेन्द्रियबुद्धिमनांसि कथम्
गगनं पवनो न हि सत्यमिति धरणी दहनो न हि सत्यमिति। यदि चैकनिरन्तरसर्वशिवं जलदश्च कथं सलिलं च कथम्
यदि कल्पितलोकनिराकरणं यदि कल्पितदेवनिराकरणम्। यदि चैकनिरन्तरसर्वशिवं गुणदोषविचारमतिश्च कथम्
मरणामरणं हि निराकरणं करणाकरणं हि निराकरणम्। यदि चैकनिरन्तरसर्वशिवं गमनागमनं हि कथं वदति
प्रकृतिः पुरुषो न हि भेद इति न हि कारणकार्यविभेद इति। यदि चैकनिरन्तरसर्वशिवं पुरुषापुरुषं च कथं वदति
तृतीयं न हि दुःखसमागमनं न गुणाद्द्वितीयस्य समागमनम्। यदि चैकनिरन्तरसर्वशिवं स्थविरश्च युवा च शिशुश्च कथम्
ननु आश्रमवर्णविहीनपरं ननु कारणकर्तृविहीनपरम्। यदि चैकनिरन्तरसर्वशिव- मविनष्टविनष्टमतिश्च कथम्
ग्रसिताग्रसितं च वितथ्यमिति जनिताजनितं च वितथ्यमिति। यदि चैकनिरन्तरसर्वशिव- मविनाशि विनाशि कथं हि भवेत्
पुरुषापुरुषस्य विनष्टमिति वनितावनितस्य विनष्टमिति। यदि चैकनिरन्तरसर्वशिव- मविनोदविनोदमतिश्च कथम्
यदि मोहविषादविहीनपरो यदि संशयशोकविहीनपरः। यदि चैकनिरन्तरसर्वशिव- महमेति ममेति कथं च पुनः
ननु धर्मविधर्मविनाश इति ननु बन्धविबन्धविनाश इति। यदि चैकनिरन्तरसर्वशिवं- मिहदुःखविदुःखमतिश्च कथम्
न हि याज्ञिकयज्ञविभाग इति न हुताशनवस्तुविभाग इति। यदि चैकनिरन्तरसर्वशिवं वद कर्मफलानि भवन्ति कथम्
ननु शोकविशोकविमुक्त इति ननु दर्पविदर्पविमुक्त इति। यदि चैकनिरन्तरसर्वशिवं ननु रागविरागमतिश्च कथम्
न हि मोहविमोहविकार इति न हि लोभविलोभविकार इति। यदि चैकनिरन्तरसर्वशिवं ह्यविवेकविवेकमतिश्च कथम्
त्वमहं न हि हन्त कदाचिदपि कुलजातिविचारमसत्यमिति। अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम्
गुरुशिष्यविचारविशीर्ण इति उपदेशविचारविशीर्ण इति। अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम्
न हि कल्पितदेहविभाग इति न हि कल्पितलोकविभाग इति। अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम्
सरजो विरजो न कदाचिदपि ननु निर्मलनिश्चलशुद्ध इति। अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम्
न हि देहविदेहविकल्प इति अनृतं चरितं न हि सत्यमिति। अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम्