यदि वर्णविवर्णविहीनसमं यदि कारणकार्यविहीनसमम्। यदिभेदविभेदविहीनसमं किमु रोदिषि मानसि सर्वसमम्
इह सर्वनिरन्तरसर्वचिते इह केवलनिश्चलसर्वचिते। द्विपदादिविवर्जितसर्वचिते किमु रोदिषि मानसि सर्वसमम्
अतिसर्वनिरन्तरसर्वगतं अतिनिर्मलनिश्चलसर्वगतम्। दिनरात्रिविवर्जितसर्वगतं किमु रोदिषि मानसि सर्वसमम्
न हि बन्धविबन्धसमागमनं न हि योगवियोगसमागमनम्। न हि तर्कवितर्कसमागमनं किमु रोदिषि मानसि सर्वसमम्
इह कालविकालनिराकरणं अणुमात्रकृशानुनिराकरणम्। न हि केवलसत्यनिराकरणं किमु रोदिषि मानसि सर्वसमम्
इह देहविदेहविहीन इति ननु स्वप्नसुषुप्तिविहीनपरम्। अभिधानविधानविहीनपरं किमु रोदिषि मानसि सर्वसमम्
गगनोपमशुद्धविशालसमं अतिसर्वविवर्जितसर्वसमम्। गतसारविसारविकारसमं किमु रोदिषि मानसि सर्वसमम्
इह धर्मविधर्मविरागतर- मिह वस्तुविवस्तुविरागतरम्। इह कामविकामविरागतरं किमु रोदिषि मानसि सर्वसमम्
सुखदुःखविवर्जितसर्वसम- मिह शोकविशोकविहीनपरम्। गुरुशिष्यविवर्जिततत्त्वपरं किमु रोदिषि मानसि सर्वसमम्
न किलाङ्कुरसारविसार इति न चलाचलसाम्यविसाम्यमिति। अविचारविचारविहीनमिति किमु रोदिषि मानसि सर्वसमम्
इह सारसमुच्चयसारमिति। कथितं निजभावविभेद इति। विषये करणत्वमसत्यमिति किमु रोदिषि मानसि सर्वसमम्
बहुधा श्रुतयः प्रवदन्ति यतो वियदादिरिदं मृगतोयसमम्। यदि चैकनिरन्तरसर्वसमं किमु रोदिषि मानसि सर्वसमम्
विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र। समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः
इति पञ्चमोऽध्यायः
बहुधा श्रुतयः प्रवदन्ति वयं वियदादिरिदं मृगतोयसमम्। यदि चैकनिरन्तरसर्वशिव- मुपमेयमथोह्युपमा च कथम्
अविभक्तिविभक्तिविहीनपरं ननु कार्यविकार्यविहीनपरम्। यदि चैकनिरन्तरसर्वशिवं यजनं च कथं तपनं च कथम्
मन एव निरन्तरसर्वगतं ह्यविशालविशालविहीनपरम्। मन एव निरन्तरसर्वशिवं मनसापि कथं वचसा च कथम्
दिनरात्रिविभेदनिराकरण- मुदितानुदितस्य निराकरणम्। यदि चैकनिरन्तरसर्वशिवं रविचन्द्रमसौ ज्वलनश्च कथम्
गतकामविकामविभेद इति गतचेष्टविचेष्टविभेद इति। यदि चैकनिरन्तरसर्वशिवं बहिरन्तरभिन्नमतिश्च कथम्
यदि सारविसारविहीन इति यदि शून्यविशून्यविहीन इति। यदि चैकनिरन्तरसर्वशिवं प्रथमं च कथं चरमं च कथम्
यदिभेदविभेदनिराकरणं यदि वेदकवेद्यनिराकरणम्। यदि चैकनिरन्तरसर्वशिवं तृतीयं च कथं तुरीयं च कथम्
गदिताविदितं न हि सत्यमिति विदिताविदितं नहि सत्यमिति। यदि चैकनिरन्तरसर्वशिवं विषयेन्द्रियबुद्धिमनांसि कथम्
गगनं पवनो न हि सत्यमिति धरणी दहनो न हि सत्यमिति। यदि चैकनिरन्तरसर्वशिवं जलदश्च कथं सलिलं च कथम्
यदि कल्पितलोकनिराकरणं यदि कल्पितदेवनिराकरणम्। यदि चैकनिरन्तरसर्वशिवं गुणदोषविचारमतिश्च कथम्
मरणामरणं हि निराकरणं करणाकरणं हि निराकरणम्। यदि चैकनिरन्तरसर्वशिवं गमनागमनं हि कथं वदति
प्रकृतिः पुरुषो न हि भेद इति न हि कारणकार्यविभेद इति। यदि चैकनिरन्तरसर्वशिवं पुरुषापुरुषं च कथं वदति
तृतीयं न हि दुःखसमागमनं न गुणाद्द्वितीयस्य समागमनम्। यदि चैकनिरन्तरसर्वशिवं स्थविरश्च युवा च शिशुश्च कथम्
ननु आश्रमवर्णविहीनपरं ननु कारणकर्तृविहीनपरम्। यदि चैकनिरन्तरसर्वशिव- मविनष्टविनष्टमतिश्च कथम्
ग्रसिताग्रसितं च वितथ्यमिति जनिताजनितं च वितथ्यमिति। यदि चैकनिरन्तरसर्वशिव- मविनाशि विनाशि कथं हि भवेत्
पुरुषापुरुषस्य विनष्टमिति वनितावनितस्य विनष्टमिति। यदि चैकनिरन्तरसर्वशिव- मविनोदविनोदमतिश्च कथम्