इति चतुर्थोऽध्यायः
ॐ इति गदितं गगनसमं तत् न परापरसारविचार इति। अविलासविलासनिराकरणं कथमक्षरबिन्दुसमुच्चरणम्
इति तत्त्वमसिप्रभृतिश्रुतिभिः प्रतिपादितमात्मनि तत्त्वमसि। त्वमुपाधिविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्
अधऊर्ध्वविवर्जितसर्वसमं बहिरन्तरवर्जितसर्वसमम्। यदि चैकविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्
न हि कल्पितकल्पविचार इति न हि कारणकार्यविचार इति। पदसन्धिविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्
न हि बोधविबोधसमाधिरिति न हि देशविदेशसमाधिरिति। न हि कालविकालसमाधिरिति किमु रोदिषि मानसि सर्वसमम्
न हि कुम्भनभो न हि कुम्भ इति न हि जीववपुर्न हि जीव इति। न हि कारणकार्यविभाग इति किमु रोदिषि मानसि सर्वसमम्
इह सर्वनिरन्तरमोक्षपदं लघुदीर्घविचारविहीन इति। न हि वर्तुलकोणविभाग इति किमु रोदिषि मानसि सर्वसमम्
इह शून्यविशून्यविहीन इति इह शुद्धविशुद्धविहीन इति। इह सर्वविसर्वविहीन इति किमु रोदिषि मानसि सर्वसमम्
न हि भिन्नविभिन्नविचार इति बहिरन्तरसन्धिविचार इति। अरिमित्रविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्
न हि शिष्यविशिष्यस्वरूपैति न चराचरभेदविचार इति। इह सर्वनिरन्तरमोक्षपदं किमु रोदिषि मानसि सर्वसमम्
ननु रूपविरूपविहीन इति ननु भिन्नविभिन्नविहीन इति। ननु सर्गविसर्गविहीन इति किमु रोदिषि मानसि सर्वसमम्
न गुणागुणपाशनिबन्ध इति मृतजीवनकर्म करोमि कथम्। इति शुद्धनिरञ्जनसर्वसमं किमु रोदिषि मानसि सर्वसमम्
इह भावविभावविहीन इति इह कामविकामविहीन इति। इह बोधतमं खलु मोक्षसमं किमु रोदिषि मानसि सर्वसमम्
इह तत्त्वनिरन्तरतत्त्वमिति न हि सन्धिविसन्धिविहीन इति। यदि सर्वविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्
अनिकेतकुटी परिवारसमं इहसङ्गविसङ्गविहीनपरम्। इह बोधविबोधविहीनपरं किमु रोदिषि मानसि सर्वसमम्
अविकारविकारमसत्यमिति अविलक्षविलक्षमसत्यमिति। यदि केवलमात्मनि सत्यमिति किमु रोदिषि मानसि सर्वसमम्
इह सर्वसमं खलु जीव इति इह सर्वनिरन्तरजीव इति। इह केवलनिश्चलजीव इति किमु रोदिषि मानसि सर्वसमम्
अविवेकविवेकमबोध इति अविकल्पविकल्पमबोध इति। यदि चैकनिरन्तरबोध इति किमु रोदिषि मानसि सर्वसमम्
न हि मोक्षपदं न हि बन्धपदं न हि पुण्यपदं न हि पापपदम्। न हि पूर्णपदं न हि रिक्तपदं किमु रोदिषि मानसि सर्वसमम्
यदि वर्णविवर्णविहीनसमं यदि कारणकार्यविहीनसमम्। यदिभेदविभेदविहीनसमं किमु रोदिषि मानसि सर्वसमम्
इह सर्वनिरन्तरसर्वचिते इह केवलनिश्चलसर्वचिते। द्विपदादिविवर्जितसर्वचिते किमु रोदिषि मानसि सर्वसमम्
अतिसर्वनिरन्तरसर्वगतं अतिनिर्मलनिश्चलसर्वगतम्। दिनरात्रिविवर्जितसर्वगतं किमु रोदिषि मानसि सर्वसमम्
न हि बन्धविबन्धसमागमनं न हि योगवियोगसमागमनम्। न हि तर्कवितर्कसमागमनं किमु रोदिषि मानसि सर्वसमम्
इह कालविकालनिराकरणं अणुमात्रकृशानुनिराकरणम्। न हि केवलसत्यनिराकरणं किमु रोदिषि मानसि सर्वसमम्
इह देहविदेहविहीन इति ननु स्वप्नसुषुप्तिविहीनपरम्। अभिधानविधानविहीनपरं किमु रोदिषि मानसि सर्वसमम्
गगनोपमशुद्धविशालसमं अतिसर्वविवर्जितसर्वसमम्। गतसारविसारविकारसमं किमु रोदिषि मानसि सर्वसमम्
इह धर्मविधर्मविरागतर- मिह वस्तुविवस्तुविरागतरम्। इह कामविकामविरागतरं किमु रोदिषि मानसि सर्वसमम्
सुखदुःखविवर्जितसर्वसम- मिह शोकविशोकविहीनपरम्। गुरुशिष्यविवर्जिततत्त्वपरं किमु रोदिषि मानसि सर्वसमम्
न किलाङ्कुरसारविसार इति न चलाचलसाम्यविसाम्यमिति। अविचारविचारविहीनमिति किमु रोदिषि मानसि सर्वसमम्