न धर्मयुक्तो न च पापयुक्तो न बन्धयुक्तो न च मोक्षयुक्तः। युक्तं त्वयुक्तं न च मे विभाति स्वरूपनिर्वाणमनामयोऽहम्
परापरं वा न च मे कदाचित् मध्यस्थभावो हि न चारिमित्रम्। हिताहितं चापि कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
नोपासको नैवमुपास्यरूपं न चोपदेशो न च मे क्रिया च। संवित्स्वरूपं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
नो व्यापकं व्याप्यमिहास्ति किञ्चित् न चालयं वापि निरालयं वा। अशून्यशून्यं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
न ग्राहको ग्राह्यकमेव किञ्चित् न कारणं वा मम नैव कार्यम्। अचिन्त्यचिन्त्यं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
न भेदकं वापि न चैव भेद्यं न वेदकं वा मम नैव वेद्यम्। गतागतं तात कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
न चास्ति देहो न च मे विदेहो बुद्दिर्मनो मे न हि चेन्द्रियाणि। रागो विरागश्च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
उल्लेखमात्रं न हि भिन्नमुच्चै- रुल्लेखमात्रं न तिरोहितं वै। समासमं मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
जितेन्द्रियोऽहं त्वजितेन्द्रियो वा न संयमो मे नियमो न जातः। जयाजयौ मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
अमूर्तमूर्तिर्न च मे कदाचि- दाद्यन्तमध्यं न च मे कदाचित्। बलाबलं मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
मृतामृतं वापि विषाविषं च सञ्जायते तात न मे कदाचित्। अशुद्धशुद्धं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
स्वप्नः प्रबोधो न च योगमुद्रा नक्तं दिवा वापि न मे कदाचित्। अतुर्यतुर्यं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
संविद्धि मां सर्वविसर्वमुक्तं माया विमाया न च मे कदाचित्। सन्ध्यादिकं कर्म कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
संविद्धि मां सर्वसमाधियुक्तं संविद्धि मां लक्ष्यविलक्ष्यमुक्तम्। योगं वियोगं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
मूर्खोऽपि नाहं न च पण्डितोऽहं मौनं विमौनं न च मे कदाचित्। तर्कं वितर्कं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
पिता च माता च कुलं न जाति- र्जन्मादि मृत्युर्न च मे कदाचित्। स्नेहं विमोहं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
अस्तं गतो नैव सदोदितोऽहं तेजोवितेजो न च मे कदाचित्। सन्ध्यादिकं कर्म कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
असंशयं विद्धि निराकुलं मां असंशयं विद्धि निरन्तरं माम्। असंशयं विद्धि निरञ्जनं मां स्वरूपनिर्वाणमनामयोऽहम्
ध्यानानि सर्वाणि परित्यजन्ति शुभाशुभं कर्म परित्यजन्ति। त्यागामृतं तात पिबन्ति धीराः स्वरूपनिर्वाणमनामयोऽहम्
विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र। समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः
इति चतुर्थोऽध्यायः
ॐ इति गदितं गगनसमं तत् न परापरसारविचार इति। अविलासविलासनिराकरणं कथमक्षरबिन्दुसमुच्चरणम्
इति तत्त्वमसिप्रभृतिश्रुतिभिः प्रतिपादितमात्मनि तत्त्वमसि। त्वमुपाधिविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्
अधऊर्ध्वविवर्जितसर्वसमं बहिरन्तरवर्जितसर्वसमम्। यदि चैकविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्
न हि कल्पितकल्पविचार इति न हि कारणकार्यविचार इति। पदसन्धिविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्
न हि बोधविबोधसमाधिरिति न हि देशविदेशसमाधिरिति। न हि कालविकालसमाधिरिति किमु रोदिषि मानसि सर्वसमम्
न हि कुम्भनभो न हि कुम्भ इति न हि जीववपुर्न हि जीव इति। न हि कारणकार्यविभाग इति किमु रोदिषि मानसि सर्वसमम्
इह सर्वनिरन्तरमोक्षपदं लघुदीर्घविचारविहीन इति। न हि वर्तुलकोणविभाग इति किमु रोदिषि मानसि सर्वसमम्
इह शून्यविशून्यविहीन इति इह शुद्धविशुद्धविहीन इति। इह सर्वविसर्वविहीन इति किमु रोदिषि मानसि सर्वसमम्
न हि भिन्नविभिन्नविचार इति बहिरन्तरसन्धिविचार इति। अरिमित्रविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्