उल्लेखमात्रमपि ते न च नामरूपं निर्भिन्नभिन्नमपि ते न हि वस्तु किञ्चित्। निर्लज्जमानस करोषि कथं विषादं ज्ञानामृतं समरसं गगनोपमोऽहम्
किं नाम रोदिषि सखे न जरा न मृत्युः किं नाम रोदिषि सखे न च जन्म दुःखम्। किं नाम रोदिषि सखे न च ते विकारो ज्ञानामृतं समरसं गगनोपमोऽहम्
किं नाम रोदिषि सखे न च ते स्वरूपं किं नाम रोदिषि सखे न च ते विरूपम्। किं नाम रोदिषि सखे न च ते वयांसि ज्ञानामृतं समरसं गगनोपमोऽहम्
किं नाम रोदिषि सखे न च ते वयांसि किं नाम रोदिषि सखे न च ते मनांसि। किं नाम रोदिषि सखे न तवेन्द्रियाणि ज्ञानामृतं समरसं गगनोपमोऽहम्
किं नाम रोदिषि सखे न च तेऽस्ति कामः किं नाम रोदिषि सखे न च ते प्रलोभः। किं नाम रोदिषि सखे न च ते विमोहो ज्ञानामृतं समरसं गगनोपमोऽहम्
ऐश्वर्यमिच्छसि कथं न च ते धनानि ऐश्वर्यमिच्छसि कथं न च ते हि पत्नी। ऐश्वर्यमिच्छसि कथं न च ते ममेति ज्ञानामृतं समरसं गगनोपमोऽहम्
लिङ्गप्रपञ्चजनुषी न च ते न मे च निर्लज्जमानसमिदं च विभाति भिन्नम्। निर्भेदभेदरहितं न च ते न मे च ज्ञानामृतं समरसं गगनोपमोऽहम्
नो वाणुमात्रमपि ते हि विरागरूपं नो वाणुमात्रमपि ते हि सरागरूपम्। नो वाणुमात्रमपि ते हि सकामरूपं ज्ञानामृतं समरसं गगनोपमोऽहम्
ध्याता न ते हि हृदये न च ते समाधि- र्ध्यानं न ते हि हृदये न बहिः प्रदेशः। ध्येयं न चेति हृदये न हि वस्तु कालो ज्ञानामृतं समरसं गगनोपमोऽहम्
यत्सारभूतमखिलं कथितं मया ते न त्वं न मे न महतो न गुरुर्न न शिष्यः। स्वच्छन्दरूपसहजं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम्
कथमिह परमार्थं तत्त्वमानन्दरूपं कथमिह परमार्थं नैवमानन्दरूपम्। कथमिह परमार्थं ज्ञानविज्ञानरूपं यदि परमहमेकं वर्तते व्योमरूपम्
दहनपवनहीनं विद्धि विज्ञानमेक- मवनिजलविहीनं विद्धि विज्ञानरूपम्। समगमनविहीनं विद्धि विज्ञानमेकं गगनमिव विशालं विद्धि विज्ञानमेकम्
न शून्यरूपं न विशून्यरूपं न शुद्धरूपं न विशुद्धरूपम्। रूपं विरूपं न भवामि किञ्चित् स्वरूपरूपं परमार्थतत्त्वम्
मुञ्च मुञ्च हि संसारं त्यागं मुञ्च हि सर्वथा। त्यागात्यागविषं शुद्धममृतं सहजं ध्रुवम्
इति तृतीयोऽध्यायः
नावाहनं नैव विसर्जनं वा पुष्पाणि पत्राणि कथं भवन्ति। ध्यानानि मन्त्राणि कथं भवन्ति समासमं चैव शिवार्चनं च
न केवलं बन्धविबन्धमुक्तो न केवलं शुद्धविशुद्धमुक्तः। न केवलं योगवियोगमुक्तः स वै विमुक्तो गगनोपमोऽहम्
सञ्जायते सर्वमिदं हि तथ्यं सञ्जायते सर्वमिदं वितथ्यम्। एवं विकल्पो मम नैव जातः स्वरूपनिर्वाणमनामयोऽहम्
न साञ्जनं चैव निरञ्जनं वा न चान्तरं वापि निरन्तरं वा। अन्तर्विभन्नं न हि मे विभाति स्वरूपनिर्वाणमनामयोऽहम्
अबोधबोधो मम नैव जातो बोधस्वरूपं मम नैव जातम्। निर्बोधबोधं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
न धर्मयुक्तो न च पापयुक्तो न बन्धयुक्तो न च मोक्षयुक्तः। युक्तं त्वयुक्तं न च मे विभाति स्वरूपनिर्वाणमनामयोऽहम्
परापरं वा न च मे कदाचित् मध्यस्थभावो हि न चारिमित्रम्। हिताहितं चापि कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
नोपासको नैवमुपास्यरूपं न चोपदेशो न च मे क्रिया च। संवित्स्वरूपं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
नो व्यापकं व्याप्यमिहास्ति किञ्चित् न चालयं वापि निरालयं वा। अशून्यशून्यं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
न ग्राहको ग्राह्यकमेव किञ्चित् न कारणं वा मम नैव कार्यम्। अचिन्त्यचिन्त्यं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
न भेदकं वापि न चैव भेद्यं न वेदकं वा मम नैव वेद्यम्। गतागतं तात कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
न चास्ति देहो न च मे विदेहो बुद्दिर्मनो मे न हि चेन्द्रियाणि। रागो विरागश्च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
उल्लेखमात्रं न हि भिन्नमुच्चै- रुल्लेखमात्रं न तिरोहितं वै। समासमं मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
जितेन्द्रियोऽहं त्वजितेन्द्रियो वा न संयमो मे नियमो न जातः। जयाजयौ मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्
अमूर्तमूर्तिर्न च मे कदाचि- दाद्यन्तमध्यं न च मे कदाचित्। बलाबलं मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्