यस्य स्वरूपात्सचराचरं जग- दुत्पद्यते तिष्ठति लीयतेऽपि वा। पयोविकारादिव फेनबुद्बुदा- स्तमीशमात्मानमुपैति शाश्वतम्
नासानिरोधो न च दृष्टिरासनं बोधोऽप्यबोधोऽपि न यत्र भासते। नाडीप्रचारोऽपि न यत्र किञ्चि- त्तमीशमात्मानमुपैति शाश्वतम्
नानात्वमेकत्वमुभत्वमन्यता अणुत्वदीर्घत्वमहत्त्वशून्यता। मानत्वमेयत्वसमत्ववर्जितं तमीशमात्मानमुपैति शाश्वतम्
सुसंयमी वा यदि वा न संयमी सुसंग्रही वा यदि वा न संग्रही। निष्कर्मको वा यदि वा सकर्मक- स्तमीशमात्मानमुपैति शाश्वतम्
मनो न बुद्धिर्न शरीरमिन्द्रियं तन्मात्रभूतानि न भूतपञ्चकम्। अहंकृतिश्चापि वियत्स्वरूपकं तमीशमात्मानमुपैति शाश्वतम्
विधौ निरोधे परमात्मतां गते न योगिनश्चेतसि भेदवर्जिते। शौचं न वाशौचमलिङ्गभावना सर्वं विधेयं यदि वा निषिध्यते
मनो वचो यत्र न शक्तमीरितुं नूनं कथं तत्र गुरूपदेशता। इमां कथामुक्तवतो गुरोस्त- द्युक्तस्य तत्त्वं हि समं प्रकाशते
इति द्वितीयोऽध्यायः
गुणविगुणविभागो वर्तते नैव किञ्चित् रतिविरतिविहीनं निर्मलं निष्प्रपञ्चम्। गुणविगुणविहीनं व्यापकं विश्वरूपं कथमहमिह वन्दे व्योमरूपं शिवं वै
श्वेतादिवर्णरहितो नियतं शिवश्च कार्यं हि कारणमिदं हि परं शिवश्च। एवं विकल्परहितोऽहमलं शिवश्च स्वात्मानमात्मनि सुमित्र कथं नमामि
निर्मूलमूलरहितो हि सदोदितोऽहं निर्धूमधूमरहितो हि सदोदितोऽहम्। निर्दीपदीपरहितो हि सदोदितोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम्
निष्कामकाममिह नाम कथं वदामि निःसङ्गसङ्गमिह नाम कथं वदामि। निःसारसाररहितं च कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम्
अद्वैतरूपमखिलं हि कथं वदामि द्वैतस्वरूपमखिलं हि कथं वदामि। नित्यं त्वनित्यमखिलं हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम्
स्थूलं हि नो नहि कृशं न गतागतं हि आद्यन्तमध्यरहितं न परापरं हि। सत्यं वदामि खलु वै परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम्
संविद्धि सर्वकरणानि नभोनिभानि संविद्धि सर्वविषयांश्च नभोनिभांश्च। संविद्धि चैकममलं न हि बन्धमुक्तं ज्ञानामृतं समरसं गगनोपमोऽहम्
दुर्बोधबोधगहनो न भवामि तात दुर्लक्ष्यलक्ष्यगहनो न भवामि तात। आसन्नरूपगहनो न भवामि तात ज्ञानामृतं समरसं गगनोपमोऽहम्
निष्कर्मदहनो ज्वलनो भवामि निर्दुःखदुःखदहनो ज्वलनो भवामि। निर्देहदेहदहनो ज्वलनो भवामि ज्ञानामृतं समरसं गगनोपमोऽहम्
निष्पापपापदहनो हि हुताशनोऽहं निर्धर्मधर्मदहनो हि हुताशनोऽहम्। निर्बन्धबन्धदहनो हि हुताशनोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम्
निर्भावभावरहितो न भवामि वत्स निर्योगयोगरहितो न भवामि वत्स। निश्चित्तचित्तरहितो न भवामि वत्स ज्ञानामृतं समरसं गगनोपमोऽहम्
निर्मोहमोहपदवीति न मे विकल्पो निःशोकशोकपदवीति न मे विकल्पः। निर्लोभलोभपदवीति न मे विकल्पो ज्ञानामृतं समरसं गगनोपमोऽहम्
संसारसन्ततिलता न च मे कदाचित् सन्तोषसन्ततिसुखो न च मे कदाचित्। अज्ञानबन्धनमिदं न च मे कदाचित् ज्ञानामृतं समरसं गगनोपमोऽहम्
संसारसन्ततिरजो न च मे विकारः सन्तापसन्ततितमो न च मे विकारः। सत्त्वं स्वधर्मजनकं न च मे विकारो ज्ञानामृतं समरसं गगनोपमोऽहम्
सन्तापदुःखजनको न विधिः कदाचित् सन्तापयोगजनितं न मनः कदाचित्। यस्मादहङ्कृतिरियं न च मे कदाचित् ज्ञानामृतं समरसं गगनोपमोऽहम्
निष्कम्पकम्पनिधनं न विकल्पकल्पं स्वप्नप्रबोधनिधनं न हिताहितं हि। निःसारसारनिधनं न चराचरं हि ज्ञानामृतं समरसं गगनोपमोऽहम्
नो वेद्यवेदकमिदं न च हेतुतर्क्यं वाचामगोचरमिदं न मनो न बुद्धिः। एवं कथं हि भवतः कथयामि तत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम्
निर्भिन्नभिन्नरहितं परमार्थतत्त्व- मन्तर्बहिर्न हि कथं परमार्थतत्त्वम्। प्राक्सम्भवं न च रतं नहि वस्तु किञ्चित् ज्ञानामृतं समरसं गगनोपमोऽहम्
रागादिदोषरहितं त्वहमेव तत्त्वं दैवादिदोषरहितं त्वहमेव तत्त्वम्। संसारशोकरहितं त्वहमेव तत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम्
स्थानत्रयं यदि च नेति कथं तुरीयं कालत्रयं यदि च नेति कथं दिशश्च। शान्तं पदं हि परमं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम्
दीर्घो लघुः पुनरितीह नमे विभागो विस्तारसंकटमितीह न मे विभागः। कोणं हि वर्तुलमितीह न मे विभागो ज्ञानामृतं समरसं गगनोपमोऽहम्
मातापितादि तनयादि न मे कदाचित् जातं मृतं न च मनो न च मे कदाचित्। निर्व्याकुलं स्थिरमिदं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम्