रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः। दृढबोधश्च धीरश्च स गच्छेत्परमं पदम्
घटे भिन्ने घटाकाश आकाशे लीयते यथा। देहाभावे तथा योगी स्वरूपे परमात्मनि
उक्तेयं कर्मयुक्तानां मतिर्यान्तेऽपि सा गतिः। न चोक्ता योगयुक्तानां मतिर्यान्तेऽपि सा गतिः
या गतिः कर्मयुक्तानां सा च वागिन्द्रियाद्वदेत्। योगिनां या गतिः क्वापि ह्यकथ्या भवतोर्जिता
एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम्। विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते
तीर्थे वान्त्यजगेहे वा यत्र कुत्र मृतोऽपि वा। न योगी पश्यते गर्भं परे ब्रह्मणि लीयते
सहजमजमचिन्त्यं यस्तु पश्येत्स्वरूपं घटति यदि यथेष्टं लिप्यते नैव दोषैः। सकृदपि तदभावात्कर्म किंचिन्नकुर्यात् तदपि न च विबद्धः संयमी वा तपस्वी
निरामयं निष्प्रतिमं निराकृतिं निराश्रयं निर्वपुषं निराशिषम्। निर्द्वन्द्वनिर्मोहमलुप्तशक्तिकं तमीशमात्मानमुपैति शाश्वतम्
वेदो न दीक्षा न च मुण्डनक्रिया गुरुर्न शिष्यो न च यन्त्रसम्पदः। मुद्रादिकं चापि न यत्र भासते तमीशमात्मानमुपैति शाश्वतम्
न शाम्भवं शाक्तिकमानवं न वा पिण्डं च रूपं च पदादिकं न वा। आरम्भनिष्पत्तिघटादिकं च नो तमीशमात्मानमुपैति शाश्वतम्
यस्य स्वरूपात्सचराचरं जग- दुत्पद्यते तिष्ठति लीयतेऽपि वा। पयोविकारादिव फेनबुद्बुदा- स्तमीशमात्मानमुपैति शाश्वतम्
नासानिरोधो न च दृष्टिरासनं बोधोऽप्यबोधोऽपि न यत्र भासते। नाडीप्रचारोऽपि न यत्र किञ्चि- त्तमीशमात्मानमुपैति शाश्वतम्
नानात्वमेकत्वमुभत्वमन्यता अणुत्वदीर्घत्वमहत्त्वशून्यता। मानत्वमेयत्वसमत्ववर्जितं तमीशमात्मानमुपैति शाश्वतम्
सुसंयमी वा यदि वा न संयमी सुसंग्रही वा यदि वा न संग्रही। निष्कर्मको वा यदि वा सकर्मक- स्तमीशमात्मानमुपैति शाश्वतम्
मनो न बुद्धिर्न शरीरमिन्द्रियं तन्मात्रभूतानि न भूतपञ्चकम्। अहंकृतिश्चापि वियत्स्वरूपकं तमीशमात्मानमुपैति शाश्वतम्
विधौ निरोधे परमात्मतां गते न योगिनश्चेतसि भेदवर्जिते। शौचं न वाशौचमलिङ्गभावना सर्वं विधेयं यदि वा निषिध्यते
मनो वचो यत्र न शक्तमीरितुं नूनं कथं तत्र गुरूपदेशता। इमां कथामुक्तवतो गुरोस्त- द्युक्तस्य तत्त्वं हि समं प्रकाशते
इति द्वितीयोऽध्यायः
गुणविगुणविभागो वर्तते नैव किञ्चित् रतिविरतिविहीनं निर्मलं निष्प्रपञ्चम्। गुणविगुणविहीनं व्यापकं विश्वरूपं कथमहमिह वन्दे व्योमरूपं शिवं वै
श्वेतादिवर्णरहितो नियतं शिवश्च कार्यं हि कारणमिदं हि परं शिवश्च। एवं विकल्परहितोऽहमलं शिवश्च स्वात्मानमात्मनि सुमित्र कथं नमामि
निर्मूलमूलरहितो हि सदोदितोऽहं निर्धूमधूमरहितो हि सदोदितोऽहम्। निर्दीपदीपरहितो हि सदोदितोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम्
निष्कामकाममिह नाम कथं वदामि निःसङ्गसङ्गमिह नाम कथं वदामि। निःसारसाररहितं च कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम्
अद्वैतरूपमखिलं हि कथं वदामि द्वैतस्वरूपमखिलं हि कथं वदामि। नित्यं त्वनित्यमखिलं हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम्
स्थूलं हि नो नहि कृशं न गतागतं हि आद्यन्तमध्यरहितं न परापरं हि। सत्यं वदामि खलु वै परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम्
संविद्धि सर्वकरणानि नभोनिभानि संविद्धि सर्वविषयांश्च नभोनिभांश्च। संविद्धि चैकममलं न हि बन्धमुक्तं ज्ञानामृतं समरसं गगनोपमोऽहम्
दुर्बोधबोधगहनो न भवामि तात दुर्लक्ष्यलक्ष्यगहनो न भवामि तात। आसन्नरूपगहनो न भवामि तात ज्ञानामृतं समरसं गगनोपमोऽहम्
निष्कर्मदहनो ज्वलनो भवामि निर्दुःखदुःखदहनो ज्वलनो भवामि। निर्देहदेहदहनो ज्वलनो भवामि ज्ञानामृतं समरसं गगनोपमोऽहम्
निष्पापपापदहनो हि हुताशनोऽहं निर्धर्मधर्मदहनो हि हुताशनोऽहम्। निर्बन्धबन्धदहनो हि हुताशनोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम्
निर्भावभावरहितो न भवामि वत्स निर्योगयोगरहितो न भवामि वत्स। निश्चित्तचित्तरहितो न भवामि वत्स ज्ञानामृतं समरसं गगनोपमोऽहम्
निर्मोहमोहपदवीति न मे विकल्पो निःशोकशोकपदवीति न मे विकल्पः। निर्लोभलोभपदवीति न मे विकल्पो ज्ञानामृतं समरसं गगनोपमोऽहम्