Pāṇini ईश्वरानुग्रहादेव पुंसामद्वैतवासना। महद्भयपरित्राणाद्विप्राणामुपजायते
येनेदं पूरितं सर्वमात्मनैवात्मनात्मनि। निराकारं कथं वन्दे ह्यभिन्नं शिवमव्ययम्
पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम्। कस्याप्यहो नमस्कुर्यामहमेको निरञ्जनः
आत्मैव केवलं सर्वं भेदाभेदो न विद्यते। अस्ति नास्ति कथं ब्रूयां विस्मयः प्रतिभाति मे
वेदान्तसारसर्वस्वं ज्ञानं विज्ञानमेव च। अहमात्मा निराकारः सर्वव्यापी स्वभावतः
यो वै सर्वात्मको देवो निष्कलो गगनोपमः। स्वभावनिर्मलः शुद्धः स एवायं न संशयः
अहमेवाव्ययोऽनन्तः शुद्धविज्ञानविग्रहः। सुखं दुःखं न जानामि कथं कस्यापि वर्तते
न मानसं कर्म शुभाशुभं मे न कायिकं कर्म शुभाशुभं मे। न वाचिकं कर्म शुभाशुभं मे ज्ञानामृतं शुद्धमतीन्द्रियोऽहम्
मनो वै गगनाकारं मनो वै सर्वतोमुखम्। मनोऽतीतं मनः सर्वं न मनः परमार्थतः
अहमेकमिदं सर्वं व्योमातीतं निरन्तरम्। पश्यामि कथमात्मानं प्रत्यक्षं वा तिरोहितम्
त्वमेवमेकं हि कथं न बुध्यसे समं हि सर्वेषु विमृष्टमव्ययम्। सदोदितोऽसि त्वमखण्डितः प्रभो दिवा च नक्तं च कथं हि मन्यसे
आत्मानं सततं विद्धि सर्वत्रैकं निरन्तरम्। अहं ध्याता परं ध्येयमखण्डं खण्ड्यते कथम्
न जातो न मृतोऽसि त्वं न ते देहः कदाचन। सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधा श्रुतिः
स बाह्याभ्यन्तरोऽसि त्वं शिवः सर्वत्र सर्वदा। इतस्ततः कथं भ्रान्तः प्रधावसि पिशाचवत्
संयोगश्च वियोगश्च वर्तते न च ते न मे। न त्वं नाहं जगन्नेदं सर्वमात्मैव केवलम्
शब्दादिपञ्चकस्यास्य नैवासि त्वं न ते पुनः। त्वमेव परमं तत्त्वमतः किं परितप्यसे
जन्म मृत्युर्न ते चित्तं बन्धमोक्षौ शुभाशुभौ। कथं रोदिषि रे वत्स नामरूपं न ते न मे
अहो चित्त कथं भ्रान्तः प्रधावसि पिशाचवत्। अभिन्नं पश्य चात्मानं रागत्यागात्सुखी भव
त्वमेव तत्त्वं हि विकारवर्जितं निष्कम्पमेकं हि विमोक्षविग्रहम्। न ते च रागो ह्यथवा विरागः कथं हि सन्तप्यसि कामकामतः
वदन्ति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम्। अशरीरं समं तत्त्वं तन्मां विद्धि न संशयः
साकारमनृतं विद्धि निराकारं निरन्तरम्। एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः
एकमेव समं तत्त्वं वदन्ति हि विपश्चितः। रागत्यागात्पुनश्चित्तमेकानेकं न विद्यते
अनात्मरूपं च कथं समाधि- रात्मस्वरूपं च कथं समाधिः। अस्तीति नास्तीति कथं समाधि- र्मोक्षस्वरूपं यदि सर्वमेकम्
विशुद्धोऽसि समं तत्त्वं विदेहस्त्वमजोऽव्ययः। जानामीह न जानामीत्यात्मानं मन्यसे कथम्
तत्त्वमस्यादिवाक्येन स्वात्मा हि प्रतिपादितः। नेति नेति श्रुतिर्ब्रूयादनृतं पाञ्चभौतिकम्
आत्मन्येवात्मना सर्वं त्वया पूर्णं निरन्तरम्। ध्याता ध्यानं न ते चित्तं निर्लज्जं ध्यायते कथम्
शिवं न जानामि कथं वदामि शिवं न जानामि कथं भजामि। अहं शिवश्चेत्परमार्थतत्त्वं समस्वरूपं गगनोपमं च
नाहं तत्त्वं समं तत्त्वं कल्पनाहेतुवर्जितम्। ग्राह्यग्राहकनिर्मुक्तं स्वसंवेद्यं कथं भवेत्
अनन्तरूपं न हि वस्तु किंचि- त्तत्त्वस्वरूपं न हि वस्तु किंचित्। आत्मैकरूपं परमार्थतत्त्वं न हिंसको वापि न चाप्यहिंसा
विशुद्धोऽसि समं तत्त्वं विदेहमजमव्ययम्। विभ्रमं कथमात्मार्थे विभ्रान्तोऽहं कथं पुनः