अष्टावक्र उवाच॥ विहाय वैरिणं काममर्थं चानर्थसंकुलं। धर्ममप्येतयोर्हेतुं सर्वत्रादरं कुरु
स्वप्नेन्द्रजालवत् पश्य दिनानि त्रीणि पंच वा। मित्रक्षेत्रधनागारदारदायादिसंपदः
यत्र यत्र भवेत्तृष्णा संसारं विद्धि तत्र वै। प्रौढवैराग्यमाश्रित्य वीततृष्णः सुखी भव
तृष्णामात्रात्मको बन्धस्तन्नाशो मोक्ष उच्यते। भवासंसक्तिमात्रेण प्राप्तितुष्टिर्मुहुर्मुहुः
त्वमेकश्चेतनः शुद्धो जडं विश्वमसत्तथा। अविद्यापि न किंचित्सा का बुभुत्सा तथापि ते
राज्यं सुताः कलत्राणि शरीराणि सुखानि च। संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि
अलमर्थेन कामेन सुकृतेनापि कर्मणा। एभ्यः संसारकान्तारे न विश्रान्तमभून् मनः
कृतं न कति जन्मानि कायेन मनसा गिरा। दुःखमायासदं कर्म तदद्याप्युपरम्यताम्
अष्टावक्र उवाच॥ भावाभावविकारश्च स्वभावादिति निश्चयी। निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति
ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी। अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते
आपदः संपदः काले दैवादेवेति निश्चयी। तृप्तः स्वस्थेन्द्रियो नित्यं न वान्छति न शोचति
सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी। साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते
चिन्तया जायते दुःखं नान्यथेहेति निश्चयी। तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः
नाहं देहो न मे देहो बोधोऽहमिति निश्चयी। कैवल्यं इव संप्राप्तो न स्मरत्यकृतं कृतम्
आब्रह्मस्तंबपर्यन्तं अहमेवेति निश्चयी। निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः
नाश्चर्यमिदं विश्वं न किंचिदिति निश्चयी। निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति
जनक उवाच॥ कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः। अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः
प्रीत्यभावेन शब्दादेरदृश्यत्वेन चात्मनः। विक्षेपैकाग्रहृदय एवमेवाहमास्थितः
समाध्यासादिविक्षिप्तौ व्यवहारः समाधये। एवं विलोक्य नियमं एवमेवाहमास्थितः
हेयोपादेयविरहाद् एवं हर्षविषादयोः। अभावादद्य हे ब्रह्मन्न् एवमेवाहमास्थितः
आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनं। विकल्पं मम वीक्ष्यैतैरेवमेवाहमास्थितः
कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा। बुध्वा सम्यगिदं तत्त्वं एवमेवाहमास्थितः
अचिंत्यं चिंत्यमानोऽपि चिन्तारूपं भजत्यसौ। त्यक्त्वा तद्भावनं तस्माद् एवमेवाहमास्थितः
एवमेव कृतं येन स कृतार्थो भवेदसौ। एवमेव स्वभावो यः स कृतार्थो भवेदसौ
जनक उवाच॥ अकिंचनभवं स्वास्थं कौपीनत्वेऽपि दुर्लभं। त्यागादाने विहायास्मादहमासे यथासुखम्
कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खेद्यते। मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम्
कृतं किमपि नैव स्याद् इति संचिन्त्य तत्त्वतः। यदा यत्कर्तुमायाति तत् कृत्वासे यथासुखम्
कर्मनैष्कर्म्यनिर्बन्धभावा देहस्थयोगिनः। संयोगायोगविरहादहमासे यथासुखम्
अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा। तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम्
स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा। नाशोल्लासौ विहायास्मदहमासे यथासुखम्