यत् पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः। अहो तत्र स्थितो योगी न हर्षमुपगच्छति
तज्ज्ञस्य पुण्यपापाभ्यां स्पर्शो ह्यन्तर्न जायते। न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गतिः
आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना। यदृच्छया वर्तमानं तं निषेद्धुं क्षमेत कः
आब्रह्मस्तंबपर्यन्ते भूतग्रामे चतुर्विधे। विज्ञस्यैव हि सामर्थ्यमिच्छानिच्छाविवर्जने
आत्मानमद्वयं कश्चिज्जानाति जगदीश्वरं। यद् वेत्ति तत्स कुरुते न भयं तस्य कुत्रचित्
अष्टावक्र उवाच॥ न ते संगोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि। संघातविलयं कुर्वन्नेवमेव लयं व्रज
उदेति भवतो विश्वं वारिधेरिव बुद्बुदः। इति ज्ञात्वैकमात्मानं एवमेव लयं व्रज
प्रत्यक्षमप्यवस्तुत्वाद् विश्वं नास्त्यमले त्वयि। रज्जुसर्प इव व्यक्तं एवमेव लयं व्रज
समदुःखसुखः पूर्ण आशानैराश्ययोः समः। समजीवितमृत्युः सन्नेवमेव लयं व्रज
अष्टावक्र उवाच॥ आकाशवदनन्तोऽहं घटवत् प्राकृतं जगत्। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः
महोदधिरिवाहं स प्रपंचो वीचिसऽन्निभः। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः
अहं स शुक्तिसङ्काशो रूप्यवद् विश्वकल्पना। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः
अहं वा सर्वभूतेषु सर्वभूतान्यथो मयि। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः
जनक उवाच॥ मय्यनंतमहांभोधौ विश्वपोत इतस्ततः। भ्रमति स्वांतवातेन न ममास्त्यसहिष्णुता
मय्यनंतमहांभोधौ जगद्वीचिः स्वभावतः। उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः
मय्यनंतमहांभोधौ विश्वं नाम विकल्पना। अतिशांतो निराकार एतदेवाहमास्थितः
नात्मा भावेषु नो भावस्तत्रानन्ते निरंजने। इत्यसक्तोऽस्पृहः शान्त एतदेवाहमास्तितः
अहो चिन्मात्रमेवाहं इन्द्रजालोपमं जगत्। इति मम कथं कुत्र हेयोपादेयकल्पना
अष्टावक्र उवाच॥ तदा बन्धो यदा चित्तं किन्चिद् वांछति शोचति। किंचिन् मुंचति गृण्हाति किंचिद् दृष्यति कुप्यति
तदा मुक्तिर्यदा चित्तं न वांछति न शोचति। न मुंचति न गृण्हाति न हृष्यति न कुप्यति
तदा बन्धो यदा चित्तं सक्तं काश्वपि दृष्टिषु। तदा मोक्षो यदा चित्तमसक्तं सर्वदृष्टिषु
यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा। मत्वेति हेलया किंचिन्मा गृहाण विमुंच मा
अष्टावक्र उवाच॥ कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा। एवं ज्ञात्वेह निर्वेदाद् भव त्यागपरोऽव्रती
कस्यापि तात धन्यस्य लोकचेष्टावलोकनात्। जीवितेच्छा बुभुक्षा च बुभुत्सोपशमः गताः
अनित्यं सर्वमेवेदं तापत्रयदूषितं। असरं निन्दितं हेयमिति निश्चित्य शाम्यति
कोऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणां। तान्युपेक्ष्य यथाप्राप्तवर्ती सिद्धिमवाप्नुयात्
ना मतं महर्षीणां साधूनां योगिनां तथा। दृष्ट्वा निर्वेदमापन्नः को न शाम्यति मानवः
कृत्वा मूर्तिपरिज्ञानं चैतन्यस्य न किं गुरुः। निर्वेदसमतायुक्त्या यस्तारयति संसृतेः
पश्य भूतविकारांस्त्वं भूतमात्रान् यथार्थतः। तत्क्षणाद् बन्धनिर्मुक्तः स्वरूपस्थो भविष्यसि
वासना एव संसार इति सर्वा विमुंच ताः। तत्त्यागो वासनात्यागात्स्थितिरद्य यथा तथा